________________
॥४॥
चौरमारं स मारितः॥८५॥ उत्पन्नो राक्षसो दुष्टः, परिणामवशेन सः । स्मृत्वाऽपमानं तं स्वीयं, गुरुवैरमुवाह च ॥८६॥ म. का. अनागत्य ततस्तेन, निवेद्य खं च वैरिणम् । हतस्ते बान्धवो राजा, भक्तिं कुर्वन्नपि क्षणात् ।। ८७ ॥ जीवग्राहं ततो । नष्टा, हन्यमाना भयात्प्रजाः । ऋद्धयाऽप्यलङ्कृतं शून्यं, तेनेदं नगरं तव ॥ ८८ ॥ अहं तु तेन नश्यन्ती, धृत्वे-/ त्यूचेऽनुरागिणा । यदि यास्यसि भद्रे ! त्वं, त्वामानेष्याम्यहं पुनः ॥ ८९ ॥ अतस्त्वया न गन्तव्यं कर्त्तव्यं न भयं । तथा । स्थिताया अत्र सर्वापि, तव चिन्ता पुनर्मम ॥ ९० ॥ इति स्थिते दिवा क्वापि, राक्षसो याति सोऽनिशम् ।। निश्यायाति पुनर्यान्ति, ममैवं वासरा इह ॥ ९१ ॥ अथोचे सा मया तस्य, मर्म किञ्चित्प्रकाशय । जित्वैनं वैरिणं । येन, वं राज्यं वालयाम्यहम् ॥ ९२ ॥ सोवाचास्य शयानस्य, पादयुग्मं घृतेन चेत् । म्रक्ष्यते स्यात् महानिद्रावशो
चेतनवत्तदा ॥ ९३ ॥ परं पुंसः करेणैव, पादाभ्यङ्गेऽस्य तादृशी । निद्राऽऽयाति न नारीणां, करस्पर्शेन कर्हि-/ चित् ॥ ९४ ॥ अन्यच्च चरणाभ्यङ्गात्पूर्व चेवेत्ति मानुषम् । पादाभ्यङ्गोऽपि नो दत्ते, सुखं हन्त्येव तं तदा ॥ ९५ ॥1॥४॥ इति भ्रातृप्रियाख्यातं, पुरवृत्तान्तमात्मनः । श्रुत्वा यावत्सहायाय, कस्मैचिच्चलितोऽस्म्यहम् ॥ ९६ ।। तावत्त्वमपि मेत्रैव, मिलितोऽसि नरोत्तम !। साहाय्यं कुरु येन स्युस्त्वादशोऽन्योपकारिणः ॥ ९७ ॥ परकार्योद्यताः सन्तः स्वकार्ये
|
Jain Educational
For Private & Personel Use Only
jainelibrary.org