________________
म. मु.
विद्यते कापि, किं वा नास्त्येव सर्वथा ॥ ४४०॥ चिन्तयित्वा ततोऽवादीदादेशीति विचक्षणः । जीवन्त्यस्ति कुमारस्य, म. का. वर्षान्ते सा मिलिष्यति ॥४१॥ जीवन्ती विद्यते सेति, श्रुत्वा वाक्यं सुधोपमम् । उज्जीवित इवाजल्पत्, कुमारः स्फा
रितेक्षणः॥४२॥ अहो ! नैमित्तिक ! ब्रूहि, विलम्बस्वापि मा क्षणम् । कसा तिष्ठति जीवन्ती, सुन्दरी मम वल्लभा ॥४३॥ IS ज्ञानी स्माह कुमारैषा, स्थिता न ज्ञायते क्वचित् । शून्ये वसति वा स्थाने, सुखिता दुःखिताऽथवा ॥४४॥ ततो
यः सुभटैस्त्यक्ताऽटव्यां सा सुन्दरी तदा । नृपेणाहूय ते पृष्टा, वितीर्याभयमञ्जसा ॥ ४५ ॥ हंहो ब्रूत नराः ! सम्यक् , तदाऽरण्ये ममाज्ञया । नीत्वा मलयसुन्दर्या, वत्सायाः किमु किं कृतम् ? ॥४६॥ ऊचुस्ते देव! सा यावन्नीत्वा । तत्र व्यमुच्यत । तावहीनमुखी भीत्या, कम्पमानाऽरुददृशम् ॥ ४७ ॥ दध्येऽस्माभिस्ततश्चिह्नरेभिरेषा न राक्षसी । भ्रान्तः केनापि दुष्टेन, नूनं व्यामोहितो नृपः ॥ ४८ ॥ स्त्रीहत्या भ्रूणहत्या च, महापापमिदं ततः । न हन्तव्याऽत्र | मुक्तेयं, स्वयं शून्ये मरिष्यति ॥ ४९॥ ध्यात्वेति रुदती मुक्त्वा, जीवन्तीमेव तत्र ताम् । अत्रागत्य तवास्माभिर्भीत्या मिथ्या प्रजल्पितम् ॥ ४५० ॥नृपोऽवोचदहो ! यावद्दयाऽमीषां न साऽपि मे । बुद्धिरेषामभूद्या च, हताशस्य न साऽपि मे ॥ ५१ ॥ इत्यात्मानं नृपो निन्दन, प्रशंसंश्च भृशं नरान् । प्रसादैः प्रीणयामास, तांस्तं च गणकोत्तमम् ॥५२॥
.
..
.
.
Jain Education lolonal
For Private Personel Use Only
Oillaw.jainelibrary.org