SearchBrowseAboutContactDonate
Page Preview
Page 133
Loading...
Download File
Download File
Page Text
________________ Jain Education कुमारः स्माह भो ज्ञानिन् !, मिलितं यत्त्वयोदितम् । जीवन्ती सा यतोऽमीमिर्मुक्ता बाला हता नहि ॥ ५३ ॥ ततो विलोक्यते तात !, तत्रान्यत्रापि साऽधुना । चन्द्रावत्यां नगर्यौ च, प्रेष्यते कोऽपिपूरुषः ॥ ५४ ॥ श्रीवीरधवलस्यापि वृत्ता - न्तोऽयं निवेद्यते । अस्माकं तत्र सा पुण्यैर्गता स्याच्चेत्कथञ्चन ॥ ५५ ॥ अथायाता न तत्सोऽपि, गवेषयति भूपतिः । कुमारोक्तं ततः सर्वे, राज्ञा तत्समनुष्ठितम् ॥ ५६ ॥ प्रतिबोध्य कुमारः स भोजितो भूभुजा ततः । स्वयं भुक्तं स्थितं चापि, चिन्तामग्नेन चेतसा ॥ ५७ ॥ कालेन कियता तेऽथ, सम्प्राप्ताः प्रेषिता नराः । बालायाः क्वापि तस्यास्तु, | शुद्धिर्लब्धा न केनचित् ॥ ५८ ॥ कुमारोऽथ निराशः सन्, दुःखमग्नो व्यचिन्तयत् । अपुण्यानि ममाहो ! यत्, | वियोगः प्रियया सह ॥ ५९ ॥ हाहा शून्ये महाऽरण्ये, कराभ्यां हृदयं स्वयम् । आहत्य हृदयस्फोटं, भविष्यसि मृता प्रिये ! | ॥ ४६० ॥ अथवेतस्ततो यान्ती, केनाप्याप्ता भविष्यसि । अथवा क्रूरजीवैस्त्वं, भक्षिताऽऽशु भविष्यसि ॥ ६१ ॥ त्वं मेऽपिं | दयिता भूत्वा पतिताऽसीद्यगापदि । यूथभ्रष्टा कुरङ्गीव, भ्रमस्येकाकिनी वने ॥ ६२ ॥ उत्सुकाऽपि प्रिये ! स्वच्छे,! सहागमनहेतवे । मया दैवहतेन त्वं, पश्चान्मुक्ता कथं तदा ? ॥ ६३ ॥ अनुभूय सुखं तादृगिदानीं दुःखसागरे निर्मग्ना दयिते ! गाढं, भविष्यसि कथं कथम् ? ॥ ६४ ॥ इत्यादि बहुधा चित्ते, स्मारं स्मारं नरेन्द्रसूः । हृदीव शल्यितो For Private & Personal Use Only ww.jainelibrary.org
SR No.600110
Book TitleMalaysundari Charitram
Original Sutra AuthorN/A
AuthorJaytilaksuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages200
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy