________________
म. सु. कार्यमिदं दोषेण गुर्वपि ॥ १५ ॥ नि सा सा वशा भूरिकूटानां मन्दिरं प्रभो ! । जानाम्यहं पुराऽप्यस्या, माहात्म्यं म. का
मूलतोऽपि च ॥ १६ ॥ इदानीमावयोः क्वास्ति, ? सा निष्कारणवैरिणी । आनीय तां दर्शयध्वं, येन पृच्छाम्यह स्वयम् ॥ १७ ॥ नृपः स्माह कुमाराधिक्षेपवाक्यैरधोमुखः । नालं विलोक्यमानाऽपि, लब्धा नष्टा तदैव सा ॥ १८ ॥ निराशोऽथ कुमारोऽवक्, छलं लब्धा हहा प्रिये ? । प्रनष्टा क्वापि सा कूटं, वितत्यैतत्तवोपरि ॥ १९ ॥ नूनं तात ! त्वया तस्या, वचनेन मुधा निजे । कुले लाञ्छनमानीतं, वंशच्छेदश्च निर्मितः ॥ ४२० ॥ इत्युक्त्वा बहुधा कान्तावियोगविधुरस्ततः । हल्लेखकलितः कामं, कुमारोऽगान्निजं गृहम् ॥ २१ ॥ पृष्ठिलग्नो नरेन्द्रोऽपि, तत्रागात्पुत्रवत्सलः। स्वयंदत्तानि सर्वत्र, तालकान्युद्घाटयत् ॥ २२ ॥ ऊचे च राक्षसीरूपा, चेष्टमानेह सा मया । बहुधा ते प्रिया दृष्टा, स्वयं मलयसुन्दरी ॥ २३ ॥ दोषस्ततो न मे कश्चित्, कुर्वतो दण्डमीदृशम् । येनेष्टापि निजा वत्स !, विनष्टा छिद्यते भुजा ॥ २४ ॥ तन्मा ताम्य कुमार ! त्वं, स्वस्थं कृत्वा निजं मनः । पश्यासीद् गेहसारं स्वं, किं किमस्ति ॥२॥
च साम्प्रतम् ॥ २५ ॥ असम्भाव्यमहो ! यन्मे, वल्लभा साऽपि राक्षसी । उपद्रवति लोकांश्च, सर्वान् मलयसुन्दरी || M॥ २६ ॥ ज्ञास्यते किन्तु सर्व चेज्जीविष्यति कथञ्चन । इति घ्यायन कुमारः स लमः सर्वमपीक्षितुम् ॥२७॥ युग्मम् ।।
Jain Education
a
l
For Private & Personel Use Only
S
w.jainelibrary.org