________________
Jain Education I
रथं प्रगुणितं च ताम् । चलिता वायुवेगेन, सुभटा अटवीं प्रति ॥ २ ॥ ततः साऽचिन्तयच्चितेऽधिक्षिपन्तो नरा अमी । निहन्तुमथवा त्यक्तुं, नयन्ति क्वापि मामितः ॥ ३ ॥ अपराधं परं कञ्चिन्न जानाम्यहमात्मनः । अथ पूर्वार्जितं कर्म, | ममाशुभमुपस्थितम्॥ ४॥ ततो रे जीव ! यद् दुःखं, तवागच्छति साम्प्रतम् । तत्सर्वं सह देहेनामुना भूत्वाऽतिकर्कशः ॥ ५ ॥ चिन्तयन्तीति सा चित्ते, विपाकं निजकर्मणः । महाबलकुमारेणाख्यातं तं श्लोकमस्मरत् ॥६॥ सा तैर्नीत्वाऽटवीं छन्ना, मुक्ता मलयसुन्दरी । दुःखं न लभते कोऽत्र, ? पूर्वकर्मोदये यतः ॥७॥ आगताः कृतकर्त्तव्या, इत्याख्याते प्रगेऽथ तैः । सविशेषं च पूरक्षां, राजाऽशिथिलयत्ततः ॥ ८ ॥ दापयामास सर्वत्र, तालकानि वधूगृहे । निर्नासां प्रेक्षयामास, तां, नारीं किन्तु नापि सा ॥ ९ ॥ अथ निर्जित्य तं भिल्लं, कतिभिर्दिवसैः पुनः । महाबलः समायातो, दयितोत्कण्ठितो | भृशम् ॥ ४१० ॥ नमस्कृत्य पितुः पादौ, गदित्वोदन्तमात्मनः । यावन्मलय सुन्दर्याः, प्रस्थितः स गृहं प्रति ॥ ११ ॥ तावच्छ्रुत्वा करे तस्मै, सूरपालेन भूभुजा । सर्व मलयसुन्दर्याः कथितं तद्विजृम्भितम् ॥ १२ ॥ कुमारो निःश्वसन् दीर्घ, वर्ष नात्मकरौ ततः । सगद्गदं ससीत्कारं वक्तुमेवं प्रचक्रमे ॥ १३ ॥ हा हा भ्रान्तोऽसि तातरत्वं, किं विचारबहिर्मुखः ? । तात ! धातुविपर्यासोऽधुना तव बभूव किम् ? ॥१४ ॥ त्वयादीर्घधिया देव !, यावत् मम समागमम् । विलम्बितं न तत्
For Private & Personal Use Only
w.jainelibrary.org