________________
रान, मुञ्चत्येषा भयङ्करान् । तेनोच्छलति लोकानां, मारिरेषा पुरे तव ॥७७॥ त्रियमाणा तदा रात्रौ, किन्तूपद्रोष्यति त्वकम् । प्रभाते देव! तेनैषा, निग्राह्या सुभटैरत्वया ॥ ७८ ॥ पुराप्यासीन्नृपो मारहेतुं ज्ञातुं समुत्सुकः । अचिन्तितमिदं श्रुत्वा, तदा चित्ते चमत्कृतः ॥ ७९ ॥ अहो ! अभद्रमेतत्किं, ममैतद् विमलं कुलम् । सर्वतो विस्फुरलोके, सकलङ्क करिष्यति ॥ ३८० ॥ रजन्यां ज्ञास्यते नूनं, सर्वमेव यथास्थितम् । कथितस्य विसंवादो, यद्यस्या न भविष्यति ॥ ८१ ॥ ध्यात्वेति भूपतिः स्माह, चिन्ताचान्तमुखच्छविः । कथनीयं न कस्यापि गोप्यमेतत्त्वया शुभे ! ॥ ८२ ॥ सोवाचाहं किमज्ञाना, ज्ञाता युष्माभिरीदृशी !। भवेयं यदि नैकान्ते, न ब्रूयां तत्तवैव हि ॥३॥ ततः सत्कृत्य सा राज्ञा, विसृष्टाऽगानिजं गृहम् । वेषादिकं च राक्षस्यास्ततः सर्वमसज्जयत् ॥ ८४ ॥ रजन्यां सा समागत्याजल्पत् मलयसुन्दरीम् । स्थातव्यं तावदत्रैव, त्वया पुत्रि ! गृहान्तरे ॥ ८५ ॥ यावद् द्वारस्थिता दुष्टां,
हत्वा तां राक्षसीमहम् । आगच्छामि समीपं तेऽन्यथाऽनिष्टं भविष्यति ॥ ८६ ॥ शिक्षा दत्त्वेति सा गत्वा, बाह्ये वस्त्र। विवर्जिता । चकार राक्षसीरूपं, वर्णकैश्चित्रिताङ्गका ॥ ८७ ॥ दधावुल्मुकमास्येन, करालक्षुरिकाकरा । राज्ञो ।
यथा यथाऽऽख्यातं, चकार च तथा तथा ॥ ८८ ॥ अत्रान्तरे समीपस्थाऽन्यवेश्मोपरिवर्त्तिना । दृष्टा छन्नेन पापिष्टा,
Jain Education in
For Private & Personel Use Only
Newjainelibrary.org