________________
म सु.
॥५९॥
Jain Education
म का.
॥ ३८ ॥ प्रष्टुकामाऽपि नापृच्छत्, किञ्चित्तत्रेति सा वशा । यदेषा मे चरित्रं (वै), सर्व प्रकटयिष्यति ॥ ३९ ॥ लक्ष्मीपुञ्जोऽपि हारोऽयमानीयास्यै समर्पितः । पापायै मम वैरिभ्यां, काभ्यामपि हतो द्रुतम् ॥ ३४० ॥ न ज्ञायतेऽथवैताभ्यामेवैष मम पार्श्वतः । हारः केनाप्युपायेन तदाऽग्राहि नदीतटे ॥ ४१ ॥ तन्नूनं वैरिणावेतौ, मम दुष्टाबुभावपि । ध्यायन्तीमिति तामेवमूचे मलयसुन्दरी ॥ ४२ ॥ अनभ्रेयं कुतो ? वृष्टिस्त्वमम्बैकाकिनी कथम् ? | दुष्टावस्था कथं युष्मन्नासाया इयमीदृशी ॥ ४३ ॥ इतश्रोक्तं कुमारेण, प्रष्टव्यं न प्रिये ! त्वया । ज्ञातमस्ति मया सर्व, कथयिष्याम्यहं तव ॥ ४४ ॥ अलं कालविलम्बेन त्वया हीत्यनुगम्यताम् । कुमारः कनकवतीगृहं शून्यमदीदृशत् ॥ ४५ ॥ चित्ते दुष्टा मुखे मिष्टा, स्थिता सा तत्र नित्यशः । पार्श्वे मलयसुन्दर्या, आजगामा| पनासिका ॥ ४६ ॥ तथाऽजल्फ्तथा तस्थौ, तथा वार्ताश्चकार सा । यथा प्रत्यतिधूर्ती तां, विश्वस्ता भूपभूरभूत् ॥४७॥ एवं मलय सुन्दर्याः, पश्यन्ती छिद्रसन्ततिम् । कालं निर्गमयामास, सा निष्कारणवैरिणी ॥ ४८ ॥ अथो मलयसुन्दर्या, भुञ्जानाया निरन्तरम् । सुखं वैषयिकं तत्राभवद्गर्भस्य सम्भवः ॥ ४९ ॥ ततस्तस्याः सुखेनैव, कालो गच्छति लीलया । पूर्यमाणासु सर्वासु, वाञ्छासु नृपसूनुना ॥ ३५० ॥ मनोरथेषु सर्वेषु, वर्द्धमानेषु नित्यशः । तस्या ला
For Private & Personal Use Only
॥५९ ॥
w.jainelibrary.org