________________
Jain Education Int
संयुता ॥ २५ ॥ नीत्वाऽलम्बागिरौ तेन, विषमे क्वापि कन्दरे । एकत्र दर्शयाञ्चके, गुप्तं मे निजमन्दिरम् ॥ २६ ॥ पुरलक्ष्मी समस्ताऽपि, नीत्वा क्षिप्ताऽस्ति तत्र या । दर्शिता साऽपि मे तेन, बहुमान पुरस्सरम् ॥२७॥ नामादि कथितं सर्वे, मिथःस्नेहेन तेन तु । तथा चैव हृतं चित्तं यथा मे तत्र संस्थितम् ॥ २८ ॥ स्थित्वा यामयुगं सोऽत्रागतः कार्येण केनचित् । प्रापि क्वापि नरेन्द्रेण, हताशः पश्यतोहरः ॥ २९ ॥ राज्ञा गोलात टेऽलम्बरौलमूलेऽथ तस्करः । सायमुद्बन्धयाञ्चके, तत्र न्यग्रोधपादपे ॥ ३३० ॥ मया दृष्टोऽद्रिशृङ्गाग्रस्थितया स ततो निशि । गताऽहं तत्र शोकेन, रुदती | मिलिता च ते ॥३१॥ अतः परं च यज्जातं, तत्र यत्प्रकटं तव । इत्येष मम निःशेषो, वृत्तान्तो राजनन्दन ! ॥ ३२ ॥ गृहाण द्रविणं तच्च, स्थानं तद्दर्शयाम्यहम् । अथाचख्यौ तया सार्द्धं गत्वा राज्ञेऽखिलं स तत् ॥ ३३ ॥ पुरस्कृत्याथ तां भूपो, गत्वा तत्र च सत्वरम् । यस्य यद्वस्तु तत्राभूत्, तस्मै सर्वे तदाऽर्पयत् ॥ ३४ ॥ प्रभूतं शेषमादाय, द्रविणं स्त्रपुरं ययौ । पुष्टकोशोऽभवत्तेन, द्रव्येण पुरुषेण च ॥ ३५ ॥ राजा (ज) दत्तोचितद्रव्या, नारी सा छिन्ननासिका । कुमारेण समं यावत्, कुमारावासमाययौ ॥ ३६ ॥ तत्र तावदपश्यत्सा, बालां मलयसुन्दरीम् । लक्ष्मीपुञ्जेन हारेण, भूषितां हृद्यतर्किताम् ॥३७॥ चमत्कृताऽथ सा दध्यौ, दुष्टैषा जीविता कथम् । कथं च न मृता कूपात, परिणीताऽमुना कथम् ?
For Private & Personal Use Only
jainelibrary.org