________________
मलयः सोऽपि, सर्वमभ्युपगत्य तत् । विमुञ्चन्मोचयंश्चापि, बाष्पाम्भः प्रस्थितः पपि ॥ १ ॥ पुरी चन्द्रावती प्राप, निर्विलम्बप्रयाणकैः । सुताजामातृलाभोक्त्या, स पित्रोरकरोन्मुदम् ॥ २ ॥ तयोर्वृत्तान्तमाकर्ण्य, कुमारात्स नरे श्वरः । नित्यमानन्दितस्तस्थौ, महादेव्याः समं ततः ॥ ३ ॥ महाबलस्य तत्राथ, भुञ्जानस्य महासुखम् । साई मलयसुन्दर्या, ययौ कालः कियानपि ॥ ४ ॥ अथान्यदा तयोर्गेहगवाक्षाङ्कोपविष्टयोः । दम्पत्योश्छिन्ननासा सा, नारी द्वारमुपागता ॥ ५॥ महाबलेन तां दृष्ट्वा, जगदे वल्लभां प्रति । सैषा यस्याः स्वरं श्रुत्वाऽनुयातोऽहं प्रिये ! तदा ॥ ६ ॥ ततो मलयसुन्दर्या, स्थिरदृष्टया निरीक्ष्य ताम् । उपलक्ष्याङ्गचिकैश्च, प्रोचे विस्मितचेतसा ॥ ७ ॥ नूनं . कनकवत्येषा, सैवावाभ्यां तदा प्रिय !। मञ्जूषान्तःस्थिता नद्याः, प्रवाहे या प्रवाहिता ॥ ८॥ गुह्यं वक्ष्यति । किञ्चिन्नो, निर्लज्जैषोपलक्ष्य माम् । यद्यन्तस्थाः शृणोम्यत्र, तदहं युष्मदाज्ञया ॥ ९॥ प्रियादेशेन तस्थुष्यां, तस्यां । काण्डपटान्तरे । प्रविष्टा तत्र सा नारी, प्रतीहारनिवेदिता ॥ ३१ ॥ पृष्टा साऽथ कुमारेण, प्रतिपत्तिपुरस्सरम् । सम्यग् । सर्व ममाख्याहि, शुभे ! त्वं चरितं निजम् ॥ ११ ॥ सा जगाद कुमारेन्द्र !, चन्द्रावत्याः पुरः प्रभोः । भार्या वीर-10 धवलस्य, नाम्ना कनकवत्यहम् ॥ १२ ॥ चुकोप भूपतिर्मह्यमेवमेवान्यदा ततः । त्यक्त्वा सर्वमहं कोपात्, निर्गता |
Jain Education
na
For Private & Personel Use Only
N
w.jainelibrary.org