SearchBrowseAboutContactDonate
Page Preview
Page 120
Loading...
Download File
Download File
Page Text
________________ ॥५७॥ Jan८८ ॥ कतिचिदिनपर्यन्ते, तेनोक्तं भूपतिं प्रति । मां प्रेषय नराधीशाधुना यामि निजं पुरम् ॥ ८९ ॥ जामातृ-म का. सुतयोर्येन, चिन्तयन्तावमङ्गलम् । दुःखेन गमयन्तौ च, कालं मे पितरौ स्थितौ ॥ २९० ॥ गत्वाऽऽदेशेन युस्माकमहं वर्धापयामि तौ । विदधामि तथा प्रत्युज्जीवितानन्दमानसौ ॥ ९१ ॥ अन्यथा दुःखमग्नौ तौ, नूनमेतौ मरिष्यतः । प्राणेभ्योऽपि तयोर्यस्मादेषाऽभीष्टा सुताऽधिकम् ॥ ९२ ॥ श्रुत्वेति भूपतिः स्माह, प्रहेतुमसहा वयम् । यद्येवं । वत्स ! तद्गच्छ, बदामो नैव किश्चन ॥ ९३ ॥ अग्रेऽप्यस्त्यावयोः प्रीतिवल्ली सम्बन्धवारिणा। सिक्ताऽनेनाधुना वाच्यंपितुरित्यात्मनस्त्वया ॥ ९४ ॥ महाबलं स्वसारं च, पप्रच्छ मलयस्ततः । गमनायासुखं पित्रोराविष्कुर्वस्तयोः पुरः ॥ ९५ ॥ महाबलो जगादेति, वाच्यं श्वशुरयोर्मम । कुमार! सारसौजन्य!, नमस्कारपुरस्सरम् ॥ ९६ ॥ अनाख्याय स्ववृत्तान्तं, कन्यामादाय गच्छता । महाबलेन चौरेण, यहुःखं युवयोः कृतम् ॥ ९७ ॥ युवाभ्यां मम निःशेषमागः क्षन्तव्यमेव तत् । उत्पाट्याहं समानीतस्ततः परवशो यतः ॥ ९८ ॥ युग्मम् ।। ऊचे मलयसुन्दर्या, भ्रातरागमनादिकम् । त्वयाऽम्बातातपादानां, विज्ञप्यं सर्वमप्यदः ॥ ९९ ॥ चिन्ता कापि न कर्त्तव्या, सुखेन महताऽस्म्यहम् । इति च भ्रातराख्येयं, गन्तव्यं पथि सुष्ठ च ॥ ३० ॥ कुमारो । Jain Education a l For Private Personel Use Only Alw.jainelibrary.org MAU
SR No.600110
Book TitleMalaysundari Charitram
Original Sutra AuthorN/A
AuthorJaytilaksuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages200
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy