________________
Jain Education
| त्कुमार ! त्वं, तत्स्थानं दर्शयास्मकान् ॥ ७६ ॥ युवाभ्यां यत्र मन्त्रः स प्रारेभे साधितुं निशि । कथं बभूव योगी स?, गत्वा तत्र विलोक्यते ॥ ७७ ॥ अनुयातस्ततः सर्वैरुदुत्थाय स भूपभूः । गत्वा तद्दर्शयामास, मन्त्रसाधकमण्डलम् ॥ ७८ ॥ यावत्सर्वेऽपि ते तत्र, लग्नाः सर्वत्र वीक्षितुम् । तावन्मध्येऽग्निकुण्डस्यापश्यन् काञ्चनपूरुषम् ॥ ७९ ॥ कर्षयित्वा च तं राजा, कोशे चिक्षेप पूरुषम् । पुनर्भवन्ति छिन्नानि, तस्याङ्गानि विना शिरः | ॥ २८० ॥ सकुटुम्बोऽथ भूपालः संप्राप्तो निजमन्दिरम् । दशाहानि पुरे तत्र, वर्धापनमकारयत् ॥ ८१ ॥ अथो मलयकेतुः स, प्रस्थितोऽनुवधूवरम् | शुद्धिं सर्वत्र कुर्वाणस्तस्य तत्र समागतः ॥ ८२ ॥ मिलित्वा भूपतेरुक्तं, तेनागमनकारणम् । राज्ञाऽपि मिलितः सोऽथ, स्वसुः स्वसृपतेरपि ॥ ८३ ॥ ताभ्यामपि प्रहृष्टाभ्यां पित्रोः पृष्टो हि मङ्गलम् । सर्वं जगाद तद्दुःखमाविष्कुर्वन्नयं ततः ॥ ८४ ॥ पृष्टौ तेनापि तौ मूलात्, वृत्तान्तं तं निजं निजम् । कथयामासतुः सर्वमनुभूतं यथा यथा ॥ ८५ ॥ कुमारो मलयाकेतुः, शिरो धुन्वन् जगाविति । अनुभूतमहो दुःखं, युवाभ्यां कथमीदृशम् ? ॥ ८६ ॥ इत्थं परस्परं प्रीतिवार्त्तारसवशंवदाः । ते सर्वेऽपि क्षुधां तृष्णां, निद्रां चान्व - भवन्न हि ॥ ८७ ॥ राज्ञा मलयकेतुः स, कुमारः सत्कृतो भृशम् । स्नानभोजनवस्त्राद्यैः, स्वस्थस्नेहेन तस्थिवान्
tional
For Private & Personal Use Only
www.jainelibrary.org