SearchBrowseAboutContactDonate
Page Preview
Page 117
Loading...
Download File
Download File
Page Text
________________ जापमेवं वितन्वतः । ततो डमरकध्वानाः, श्रूयन्ते स्म विहायसि ॥ ५२ ॥ कुशुद्ध मृतकं ह्येतत्, पुरुष ! रे न सेत्स्यति । जल्पन्तीत्यवतीर्णाऽभ्राद्देवता कुपिता तदा ॥ ५३ ॥ तया देवतया योगी, केशग्राहं ससाधकः । उल्लाल्य चिक्षिपे मध्ये, ज्वलज्ज्वलनकुण्डकम् ॥ ५४ ॥ तद् दृष्ट्वाऽहं दृढाङ्गोऽपि, क्षुब्धः किञ्चन मानसे । अतस्तया निबद्धौ मे, हस्तौ पन्नगपाशकैः ॥ ५५ ॥ कुमारं सुन्दराकारं, क एनं मारयिष्यति । जल्पन्तीति गता व्योम्नि, सा मां धृत्वाऽऽशु पादयोः ॥ ५६ ॥ शाखायुग्मस्य मध्येऽत्र, क्षिप्त्वांह्रियुगलं मम । गता सा देवता शीघ्रं, लम्बमानः स्थितस्त्वहम् ॥ ५७ ॥ अत्रेदं मृतकं चापि, तथैवागत्य तस्थिवान् । ईक्षांबभूवुस्तत्सर्वे, चालयित्वाऽथ कन्धराम् ॥ ५८ ॥ ऊचुश्वाक्षतसर्वाङ्ग, कुशुद्धं मृतकं कथम् ? । ततोऽवदन्नृपः शीघ्रं, धुन्वन् किञ्चिच्च चिन्तयन् ॥५९॥ अहो यत्रोटितं दन्तैः, स्त्रीनासाग्रं किलामुना । भविष्यत्यास्यमध्ये तत् , कुशुद्धं तेन नन्विदम् ॥२६०॥ शिरः सर्वेऽपि धुन्वन्तो, जल्पन्ति स्म नृपं प्रति । एवमेव नरेन्द्रेदं, नान्यथा ते वरा मतिः॥६१॥ राजाऽपि वीक्षयामास, तन्मुखं निजपुरुषैः । नासाग्रे वीक्षिते तत्र, सर्वेषां प्रत्ययोऽभवत् ॥६२॥ सखेदं राजसूराख्यत् , नैतज्ज्ञातं मयाऽपि हा । महद्विनाशितं । कार्य, योगिनः कथितं न तत् ॥ ६३ ॥ राजोचे वत्स ! मा खेदं, कात्त्विं हृदये वद । नागबन्धः कथं नष्टः, सुदृढो . Jain Education in For Private Personel Use Only oh jainelibrary.org
SR No.600110
Book TitleMalaysundari Charitram
Original Sutra AuthorN/A
AuthorJaytilaksuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages200
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy