SearchBrowseAboutContactDonate
Page Preview
Page 114
Loading...
Download File
Download File
Page Text
________________ म.म. ॥५४॥ अभिमन्त्र्य च मे भालतले चक्रे विशेषकः ॥ १४ ॥ ततोऽहं कज्जलच्छायः, सञ्जातः पन्नगो महान् । दृश्यमानोऽपि म.का. सर्वेषां, जीवानां प्राणनाशनः ॥ १५ ॥ दर्शयित्वा गुहामेकां, नातिदूरे ततो मम । स्वकार्यसाधनकृते, महायोगी स जग्मिवान् ॥ १६ ॥ तत्रानिलं पिबन् यावत् , सुखेनैव स्थितोऽस्म्यहम् । तावत् गारुडिकाः केऽपि, पश्यन्तः सर्पमैयरुः Sm१७॥ मन्त्रेण स्तम्भयित्वाऽहं, धृतः क्षिप्तश्च तैर्घटे । समानीय च युष्मभ्यं, यक्षगेहे समर्पितः॥१८॥ युष्माभिः स समा दिष्टो, दिव्यं कर्तुं नवः पुमान् । निर्भयेन ततस्तेन, समाकृष्टो घटादहम् ॥१९॥ मया करधृतेनैव, हारः कृष्ट्वा मुखानिजात् । उपलक्षितरूपस्य, तस्य कण्ठे निचिक्षिपे ॥ २२० ॥ पश्चात्सोऽभून्नरः साक्षादिव्यरूपा नितम्बिनी । इत्यादि । देव! निखिलं, प्रत्यक्षं भवतामपि ॥ २१ ॥ बहुधाऽऽराध्य भीतेनालम्बशैलस्य गह्वरे । तत्रैव मोचितः सर्पः, स त्वयेति । कथावधिः ॥ २२ ॥ नृपोऽथ कथयामास, कथं सोऽभिनवः पुमान् । अस्माकं पश्यतामेव, वत्साभूदिव्यकामिनी ? In २३ ॥ कुमारः स्माह हे देव !, मध्यरात्रे तदा मया । सम्प्राप्तेन श्रुतो दीनः, स्वरो नार्याः कुतोऽपि हि ॥ २४ ॥ गच्छतोऽनुस्वरं तत्र, मया मुक्ता वधूस्तव । पुंरूपा कदलीगेहे, महस्त्राभरणान्विता ॥ २५ ॥ ततो नवनरस्यास्यात्रायातस्य कथञ्चन । युष्माभिर्घटसर्पस्य, दिव्यं दत्तं सुदुष्करम् ॥ २६ ॥ युष्माकं भूरिपुण्येन, दिव्येनात्र नरे ॥५४॥ Jain Education a l For Private Personel Use Only ww.jainelibrary.org
SR No.600110
Book TitleMalaysundari Charitram
Original Sutra AuthorN/A
AuthorJaytilaksuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages200
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy