________________
Jain Education
00000000
| उल्लय कुण्डे तत्पतितं मृतकं ननु । निर्विण्णः स ततो योगी, ध्यानेऽभूच्छिथिलादरः ॥ २ ॥ उत्पत्य मृतकं व्योम्नि, साट्टहास्यास्य भीषणम् । गत्वा तत्रैव न्यग्रोधे, लम्बमानं तथास्थितम् ॥ ३ ॥ अथोंचे योगिना किञ्चिदागतं स्खलितं मम । सिद्धस्तेन न मन्त्रोऽयमुत्पत्यमृतकं गतम् ॥ ४ ॥ एष्यन्त्यां निशि कर्त्तव्यं, | पुनर्मन्त्रस्य साधनम् । सम्यग् मया त्वयाऽप्यत्र, स्थातव्यं कृपया मम ॥ ५ ॥ साहाय्येनैष मन्त्रस्ते, कुमार ! मम सेत्स्यति । सदा परोपकारी त्वं, कुरु मे तदुपक्रियाम् ॥ ६ ॥ अङ्गीकृत्य वचस्तस्य, देवाहं तत्र तस्थिवान् । बिभ्यता भणितं तेन योगिनाऽपीति मां प्रति ॥ ७ ॥ तिष्ठन्तं त्वां कुमारात्र, मत्पार्श्वे कोऽपि पूरुषः । राज्ञोऽन्यो वा यदि द्रष्टा, तदैवं चिन्तयिष्यति ॥८॥ केनापि छद्मना नूनं, प्रतार्यानेन योगिना । कुमारो नृपतेरेष, ग्राहितः कृष्टमानसः ॥ ९ ॥ तदेनं योगिनं हत्वा कुमारं मोचयाम्यमुम् । अन्यथा यास्यति क्वापि, गृहीत्वैष प्रतारकः ॥ २१० ॥ अतो यदि कुमार ! त्वमुपकारं दधत् हृदि । अथाहं तद्दिनं यावद्रूपमन्यत्करोमि ते ॥ ११ ॥ कोऽपि येनाभिजानाति, न त्वामत्र परिभ्रमन् । ततस्तात ! मया तस्य वचनं मानितं तदा ॥ १२ ॥ लक्ष्मीपुञ्जस्य हारस्य, प्रणाशो मम मा स्म भूत् । इति चिन्तयता हारो, निक्षिप्तो वदने मया ॥ १३ ॥ तेनाथ योगिना किञ्चित्, घर्षयित्वाऽऽशु मूलिकाम् ।
ional
For Private & Personal Use Only
w.jainelibrary.org