SearchBrowseAboutContactDonate
Page Preview
Page 111
Loading...
Download File
Download File
Page Text
________________ त्वमेकाश्लेषं ददाम्यहम् । मुखं चास्य विलिम्पामि, चन्दनेन यथा सुधीः ! ॥ ७७ ॥ तयेत्युक्ते मया देव !, कथितं कृपया तदा । भद्रे ! स्कन्धं समारुह्य, यथेष्टं त्वं समाचर ॥७८॥ समुत्पत्य मम स्कन्धमारूढा सहसाऽथ सा । शबस्योत्कण्ठिता कण्ठं, यावदालिम्पति प्रभो !॥ ७९ ॥ तावत्तेन शबेनास्या, दन्तैरात्ताऽशुनासिका । रसन्ती विरसं भूरि, लग्ना सा कम्पितुं ततः ॥ १८० ॥ गाढात्ताया नसस्तस्याः कर्षन्त्यास्त्रुटिता तदा । अग्रभागः शबस्यास्य, मुखमध्ये स्थितः किल ॥ ८१ ॥ ममेदं पश्यतो हास्यं, स्फुटितास्यं समागतम् । प्रजल्पितं ततस्तेन, शबेन हसता मनाम् ॥ ८२ ॥ ममेदं चरितं दृष्ट्वा, हससि त्वमहो कथम् । उहत्स्यसे त्वमप्याशु, येनात्रैव वद्रुमे ॥ ८३ ॥ एष्यन्त्यां निश्यधोवक्त्रः, स्थाताऽस्यूर्ध्वपदोऽपि च । शबस्येति वचः श्रुत्वा, भीतोऽहं तात ! मानसे ॥ ८४ ॥ ऊचुस्ते विस्मिताः सर्वे, श्रोतारश्चित्रमुत्कटम् । किं कुमार! प्रजल्पन्ति, शबा अपि कदाचन ? ॥ ८५ ॥ कुमारेण ततोऽभाणि, तात ! जल्पन्ति नो शबाः । किन्तु केनापि देवेन, शबस्थेनेति भाषितम् ॥ ८६ ॥ नान्यथा देववाक्यं स्यात्ततस्तातेत्यहं स्मरन् । चकितो धीरचित्तोऽपि, बाढं बुद्धिसमन्वितः ॥ ८७ ॥ सापि भीकम्पमानाङ्गी, नारी त्रुटितनासिका । स्कन्धादुत्तीर्य पप्रच्छ, नामस्थानादि मां ततः ॥ ८८ ॥ मयापि कथिते सत्ये, नामस्थानादिके निजे. Jain Education onal For Private Personel Use Only Objainelibrary.org
SR No.600110
Book TitleMalaysundari Charitram
Original Sutra AuthorN/A
AuthorJaytilaksuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages200
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy