________________
पाम्भः खयं मुखे ॥५१॥ युग्मम् । समुन्मीलितनेत्रोऽथ, विस्फुरच्चारुचेतनः । पद्भावत्या जनन्येति, सादरं भाषितः सुतः । ॥ ५२॥ हा वत्स दुर्लभालोक !, मया त्वं हीनसत्त्वया । हारालोकनकार्येण, समादिष्टस्तदाऽज्ञया ॥५३॥ व गतस्त्वं । स्थितः कुत्रानुभूतं किं किमु त्वया ? । कुमारैषा कथं जाता, दुःस्थावस्था तवापि च ? ॥५४॥ राजोचे कथयास्माकं, चित्तं वत्स ! समुत्सुकम् । नालं कालविलम्बाय, गर्जिते शिखिनादवत् ॥५५॥ क्षिपन् सर्वत्र नेत्राणि, विशेषेण नवस्त्रियाम् । कुमारः रमाह वृत्तान्तमनुभूतं ततो निजम् ॥ ५६ ॥ मध्येसौधं यथाऽऽयातः, करस्तेन हृतो यथा । इत्यादि पुनरेवात्र, रम्भोद्यानागमावधि ॥५७॥ तथैव सर्वमाख्याय, कुमारः पुनरब्रवीत् । मुक्त्वा युष्मद् वधूं तत्रागां ताताहमनुस्खरम् ॥ ५८ ॥ युग्मम् । इतश्च कृतनीरङ्गी, सावधानां प्रियां प्रति । क्षिपन्नेत्रे जगादेष, कुमारःशृणुताग्रतः ॥ ५९॥ गच्छताऽथ मया दृष्टो, मन्त्रं किमपि साधयन् । एकाक्येव महायोगी, सज्जितोपस्करो वने ॥ १६० ॥ मद्दर्शनेन मुक्त्वाऽऽशु, सर्व व्यापारमात्मनः । अहमभ्यर्थितस्तेन, कृताभ्युत्थानकर्मणा ॥ ६१ ॥ अहो कुमारवीरेन्द्र!, परोपकृतिकर्मठ ! । त्वमद्यात्रासहायस्य, सम्प्राप्तः सुकृतैर्मम ॥ ६२ ॥ अयं येन महामन्त्रः, प्रारब्धोऽस्ति प्रसाधितुम् । सिद्धे मन्त्रेऽत्र कनकपुरुषः सेत्स्यति ध्रुवम् ॥ ६३ ॥ सामग्रीयं मया सर्वा, मेलिताऽस्ति कुमार ! वै । एक
Jain Education
fonal
For Private Personel Use Only
O
w.jainelibrary.org