SearchBrowseAboutContactDonate
Page Preview
Page 107
Loading...
Download File
Download File
Page Text
________________ हा मया मूढया तादृग्, पुत्ररत्नं महापदि । अस्य हारस्य कार्येण, पातितं दुर्लभं पुनः ॥ २७ ॥ रत्नं पाषाणकार्येण, सुधा पानीयहेतवे । कल्पवृक्षश्च निम्बार्थ, देव ! निर्गमितो मया ॥ २८ ॥ जीवित्वा किं करिष्यामि ?, तन्निर्भाग्यशिरोमणिः । देव ! प्रेषय मां येन, भृगुपातं तनोम्यहम् ॥ २९ ॥ राजा जगाद देवि ! त्वं, स्थापिताऽसि पुरा मया । आप्रभातं न वक्तव्यमत्रार्थे किमपि त्वया ॥ १३० ॥ तावद्धारोऽपि लब्धोऽयमतर्कित इहाधुना । समेष्यति । कुमारोऽपि, पुण्यैरेवं कुतोऽपि नः ॥ ३१ ॥ संधीर्येति प्रियां राजा, ययौ निजनिकेतनम् । खं खं स्थानं समस्तोऽपि, जनो विस्मितमानसः ॥ ३२ ॥ देव्या समं गताऽऽवासं, सा स्त्री मलयसुन्दरी । कारिता भोजनादीनि, कृत्यान्यगमयदिनम् ॥ ३३ ॥ देव्या समं महीपोऽपि, कुमारविरहार्दितः । दिनशेषं निशां चापि, कृच्छ्रेणाप्यत्यवाहयत् in ३४ ॥ प्रेषिताः शुद्धिकार्येण, प्रातरागत्य ते नराः । सर्वेऽप्यूचुः कुमारस्य, शुद्धिर्नाता प्रभो ! कचित् । Main ३५ ॥ निराशौ तौ ततो राजा, राज्ञी च द्वावपि द्रुतम् । जग्मतुर्गिरिपादान्तं, यावन्मरणहेतवे ॥ ३६ ॥ तावत्तत्र समागत्य, केऽपि वास्तव्यपूरुषाः । श्वासपूर्णमुखा भूमीपालमेवं व्यजिज्ञपन् ॥ ३७॥ धनञ्जयस्य यक्षस्य, पार्श्वे गोलानदीतटे । यत्रोद्वद्धोऽस्ति चौरः सः, लोभसारो वद्रुमे ॥ ३८ ॥ तत्रैवातिदृढस्थूलशाखायुग्मस्य मध्यतः। Jain Education a l For Private & Personel Use Only Cliw.jainelibrary.org
SR No.600110
Book TitleMalaysundari Charitram
Original Sutra AuthorN/A
AuthorJaytilaksuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages200
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy