________________
॥५०॥
सञ्जातं, रूपं स्वाभाविकं मम । निष्ठ्यूतेन कुमारस्य, भालदेशनिवेशिना ॥ १४ ॥ अधुना त्वहिजिह्वाया, लेहेनन म. का. बभूव तत् । हारोऽपि मेऽर्पितस्तेन, स किं सर्पोऽभवत्ततः?॥१५॥ न त्वेतद् घटते सम्यग्, परमार्थ न वेदम्यहम् ।घटते ।। यावदेवात्र, तावदेव वदामि च ॥१६॥ इदं जगाद सा बाला, लज्जानम्रमुखी ततः । एतावदेव जानामि, नान्यत् । किञ्चिन्नरेश्वर ! ॥ १७ ॥ अहं चन्द्रावतीस्वामिश्रीवीरधवलात्मजा । अतीवेष्टा पितुर्दैव!, नाम्ना मलयसुन्दरी ॥१८॥ बभाषे नृपति हो, युक्तियुक्तमिदं वचः । यतोऽन्यत्पूर्वमाख्यायि, नररूपस्थयैतया ॥ १९ ॥ चन्द्रावतीपुरी कास्ते, श्रीवीरधवलस्य सा । क चेदं पृथिवीस्थानमेषा कैकाकिनी पुनः ? ॥ १२० ॥ भविष्यति कुतोऽप्यस्य, वृत्तान्तस्य । प्रकाशनम् । एषाऽपि यदि सत्यास्ति, नार्येव वरवर्णिनी ॥ २१ ॥ आगमिष्यति शीघ्रं तत् , कोऽप्यस्याः पृष्ठतो ननु । सत्कृत्यैतां तदा तस्मै, दास्यामो दिव्यकामिनीम् ॥ २२ ॥ देवि! त्वं सह हारेण, लक्ष्मीपुञ्जन साम्प्रतम् । सुखेनैता धर स्वीयपार्श्वे चटुललोचनाम् ॥ २३ ॥ हारोऽपि चटितो देवि !, मध्येपञ्चाहमेष ते । सुखी दुःख्यथवा क्वापि, सुतो-४॥५०॥
ऽभूत्सत्यसङ्गरः॥ २४ ॥ मोक्तव्योऽध्यवसायस्तन्मरणस्य त्वयाऽधुना । हाराप्राप्तौ कुमारेण, अङ्गीकृतमभूद्यतः । elu २५ ॥ देव्युवाच महाराज!, किमनेन करोम्यहम् । हारेण जीवितं धर्तुं, न शक्नोमि विनाऽत्मजम् ॥ २६ ॥
Jain Education
a
l
For Private & Personel Use Only
N
w.jainelibrary.org