SearchBrowseAboutContactDonate
Page Preview
Page 105
Loading...
Download File
Download File
Page Text
________________ 今白白色白白白合合合令今9999白白中白白白白吃白白白白白白白白白。 मेष स्वयं ततः ॥ १॥ न सामान्यो भुजङ्गोऽयं, सर्परूपेण किंत्वसौ । देवो वा दानवो वापि, किंवा शेषः स्वयं ह्ययम् ॥ २॥ विचित्रशक्तिकौ किं वा ?, कावप्येतौ नरावुभौ । प्रच्छन्नौ केन कार्येण, क्रीडन्तोऽन्तःपुरं किल ॥ ३ ॥ ज्ञायते परमार्थो नाधुना तत्किं करोम्यहम् ? । आराधयामि भक्त्येमौ, भक्तिग्राह्या हि देवता ॥ ४ ॥ उच्चिक्षेपागरुं भूपः, पुष्पाद्यैस्तमपूपजत् । जजल्प च प्रसद्याहिराज ! मुञ्चाशु सुन्दरीम् ॥ ५॥ भगवन्नहिराज ! त्वं, मया । दूनोऽस्यनेकधा । तत्प्रसद्य त्वया सर्वः, सोढव्यो दुर्नयो मम ॥ ६ ॥ तया मुक्तोऽथ सर्पः स, रमण्याऽऽशु कराम्बुजात् । राजा च ढौकयामास, पुरस्तस्य पयो द्रुतम् ॥ ७ ॥ पायं पायं च तद् दुग्धं, यावत्सौहित्यमाप सः । राज्ञा तावत्समादिष्टास्त एवेत्यहितण्डिकाः ॥ ८ ॥ अहो एष महासर्प, आनीतः स्थानकाद्यतः । गृहीत्वा तत्र युष्माभिर्मोक्तव्योऽतिप्रयत्नतः ॥ ९॥ यदि स्तोकाऽपि पीडाऽस्य, नागराजस्य निर्मिता । ततो युष्मानहं सर्वान, हनिष्यामि स्वयं ननु ॥ ११० ॥ तथेत्युक्त्वाऽहिमादाय, मुक्त्वा तत्र सुखेन ते । पुरमागत्य भूपायाशंसन् राजनरैः सह ॥११॥अथोचे सा नृपेण त्वं, पुंरूपाऽभूः शुभेऽधुना । अस्माकं पश्यतामेव, सञ्जाता युवती स्फुटम्॥१२॥ परमार्थः क ईदृक्षः, काऽसि त्वं वररूपभाग् ? । सत्यमाख्याहि मे सर्व, येन स्याचित्तनिर्वृतिः ॥१३॥ दध्यौ साऽग्रेऽपि Jain Education For Private & Personel Use Only jainelibrary.org
SR No.600110
Book TitleMalaysundari Charitram
Original Sutra AuthorN/A
AuthorJaytilaksuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages200
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy