SearchBrowseAboutContactDonate
Page Preview
Page 103
Loading...
Download File
Download File
Page Text
________________ देव्यब्रवीत्किमेतद्भो!, लब्धान्येतान्यहो कुतः ? ॥ ७६ ॥ तेषां कुण्डलवस्त्राणां, लाभवृत्तान्तमाह सा । ततो जगाद । सा देवी, हर्षशोकाकुला समम् ॥ ७७ ॥ अभीष्टो मत्कुमारस्य, किं कोऽप्येष पुमानिह । शुद्धिं कामपि गदितुं, कुतोऽप्यद्य समागमत् ॥ ७८ ॥ किंवा केनापि रिपुणा, छलघातेन तं सुतम् । हत्वा कुण्डलवस्त्राणि, गृहीतान्यत्र । कुत्रचित् ? ॥७९॥ ततो गत्वेक्ष्यते सैष, दिव्येन स्यात्कथं कथम् ? । इति यक्षगृहं देवी, ययौ सा सपरिच्छदा ॥८॥ पूर्वमेवागतस्तत्र, राजा यक्षस्य मन्दिरे । धनञ्जयस्य लोकोऽपि, कौतुकेनामिलत्तदा ॥ ८१ ॥ तेऽपि गारुडिकास्तत्रायाता भूपं व्यजिज्ञपन् । देवालम्बाद्रिच्छिद्राणि, दर्श दर्शमनेकधा ॥ ८२ ॥ कज्जलाभो महाकायः, फूत्कारैरतिदारुणः । एष सो घटे क्षिप्त, आनिन्येऽस्माभिरत्र हि ॥ ८३ ॥ साहिं धनञ्जयस्याग्रे, मोचयित्वाऽथ तं घटम् ।। राज्ञोचे तं नरं शीघ्रमत्रानयत रे भटाः! ॥ ८४ ॥ खड्गव्यग्रकरैर्बादं, वेष्टितः सुभटैः पुमान् । शुचीभूतः स || आनीतस्तत्र रूपश्रियाऽधिकः ॥ ८५ ॥ दृष्ट्वा तं चिन्तयामास, देवी लोकोऽप्यहो कथम् ? । किलैतस्यैतयाऽऽकृत्या, भवत्येष मलिम्लुचः ॥ ८६॥ उत्तिष्ठते जलाहहिरिन्दोरङ्गारवर्षणम् । अमृताद् यदि दाहोऽपि, कार्यमस्मादिदं ततः ॥ ८७ ॥ इदं दिव्यं नरस्यास्य, न दातुं देव ! युज्यते । राज्ञोचे कोऽपि दोषो न, दिव्ये दत्तेऽत्र भो जनाः ! ॥८८॥al Jain Educaton For Private & Personel Use Only X w.jainelibrary.org
SR No.600110
Book TitleMalaysundari Charitram
Original Sutra AuthorN/A
AuthorJaytilaksuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages200
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy