SearchBrowseAboutContactDonate
Page Preview
Page 102
Loading...
Download File
Download File
Page Text
________________ म. सु.म्भरैः ॥ ६३ ॥ देवी विज्ञपयत्येवं, देव ! न ज्ञायते क्वचित् । महाबलः कुमारः स, तावत्सर्वगुणाकरः ॥ ६४ ॥ म. का. ॥४॥ तदेवाद्य दिनं तेन, यदुक्तं पञ्चमं तदा । मृतो नूनं कुमारस्तदागतोऽभूदिहान्यथा ॥ ६५ ॥ लक्ष्मीपुञ्जस्य हारस्य, शुद्धिस्तस्यापि नाभवत् । मृते तस्मिन् कुमारे मे, हारप्राप्तिः सुदुर्लभा ॥ ६६ ॥ अलब्धे दुर्लभे हारे, कुमारेऽथ| महाबले । न क्षमा जीवितं धत्, दुःखभारेण भारिता ॥ ६७ ॥ भृगुपातं करिष्येऽहं, गत्वाऽलम्बगिरी ततः।। क्षन्तव्योऽस्तु त्वया सर्वोऽधुना दुर्विनयो मम ॥ ६८ ॥ नृपोऽवोचदथो देवी, वाच्या मम गिरा त्वया । समानं मे तवाप्येतत् , दुःखं देवि! सुदुस्सहम् ॥ ६९ ॥ मया प्रस्थापिताः सन्ति, कुमारं वीक्षित नराः । दर्श दर्श समायान्तु, तावत्सर्वेऽपि ते त्विह ॥ ७० ॥ प्रवृत्तिं तस्य चेत्काञ्चित् , जल्पन्ति ते कथश्चन । लभ्यश्च दिवसो देवि!, कुमारेणाद्य पञ्चमः ॥ ७१ ॥ कुमारस्याद्य शुद्धिर्न, यदि कापि भविष्यति । शरणं मेऽपि ते मार्गः, प्रभाते त्वं त्वरस्व मा ॥ ७२ ॥ तस्य कुण्डलवस्त्राणि, लब्धान्यद्यैव देवि! हे । अपूर्वपुरुषादस्मात्, कुमारस्य मया खलु ॥ ७३ ॥ अर्पयेतान्यये ॥४८॥ देव्यै, कथनीयं तथा त्वया । यथैतानि कुमारोऽपि, हारोऽप्यत्र तथैष्यति ॥ ७४ ॥ अनेन कारयिष्यामः, पुंसा दिव्यं तु साम्प्रतम् । इत्युक्ते तेन सा दासी, देव्यै गत्वाऽखिलं जगौ ॥ ७५ ॥ तेषु कुण्डलवस्त्रेषु, तया दत्तेषु विस्मिता Jan Education For Private sPersonal use Only
SR No.600110
Book TitleMalaysundari Charitram
Original Sutra AuthorN/A
AuthorJaytilaksuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages200
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy