SearchBrowseAboutContactDonate
Page Preview
Page 225
Loading...
Download File
Download File
Page Text
________________ rrrrrrrrrrr | शासूक् अनुशिष्टाविति वाग्विधिविद्भिश्चतुर्दशपूर्वधरैः, विशेषेण नियतो निर्णीतः । दैङ्क त्रैङ् पालनार्थे सर्वशब्दविदांसंस्कृतप्राकृतादिशब्दविज्ञानाम् ॥ १८६ ॥ रागद्वेषव्याप्तचित्तान् शिक्षयति-'विपरीतमशुभं मा कुरु, अनवरतं शुभमविपरीतं कुरु'इत्यादिना, तथा संत्रायते-रक्षति सदाचारे, स्थितानिति शेषः, कुतो? नरकादिदुःखात् ॥ १८७ ॥ | शासनस्य-शिक्षणस्य सामर्थ्य-बलिष्ठताऽनेन संत्राणस्य-पालनस्य बलेन चोभयेन सहितं यत्तच्छास्त्रमुच्यते सिद्धान्तः। संसारभावमनुवदतां मोक्षं दर्शयतां सर्वविदामेतद्वचनम् ॥ १८८॥ बन्धः-कर्मोपादानं, मोक्षः-कर्माभावः ॥१८९ ॥ | एतानि विवरीषुस्तावजीवानाह-असंख्येयप्रदेशात्मकाः सकलोपयोगभाजः मुक्ताः-सिद्धाः, संसारिणो-भवस्था लक्षणत|श्चिह्नत एकेन्द्रियादयो ज्ञातव्या इति, लक्षणतो-ऽसाधारणस्वरूपतः ॥ १९ ॥ एवमनेकप्रकाराणामेकैको विधिरेकैको भेदोऽनन्तकालवर्तित्वादनन्तपर्यायः, अनन्ताः पर्याया-धर्मा यस्य, अन्तर्मुहूर्तादारभ्यैकैकसमयवृद्ध्या त्रयस्त्रिंशत्सागरोपमाणि यावस्थितयः, अङ्गलासंख्येयभागादारभ्य यावत्समस्तलोकावगाहा, ज्ञानवस्तुविशेषाववोधो, दर्शन-वस्तुसामान्यावबोधः, पर्यायास्तारतम्यकृतविशेषाः॥ १९३ ॥ उपयोगश्चेतनाज्ञानदर्शनव्यापारः, साकारो-विकल्परूपो ज्ञानोपयोगस्तद्विपरीतो दर्शनोपयोगो व्यष्टचतुर्भेदः ॥१९४ ॥ Join Education a l For Private & Personal use only M ainelibrary.org
SR No.600109
Book TitlePrashamrati Prakarana
Original Sutra AuthorUmaswami, Umaswati
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1940
Total Pages240
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy