SearchBrowseAboutContactDonate
Page Preview
Page 217
Loading...
Download File
Download File
Page Text
________________ Jain Education देहः- शरीरं, नैवाऽन्नपानवसनादिभिर्विना यापयितुं शक्यस्तान्यन्नपानवसनादिसाधनानि लोकवशानि, सद्धर्मस्य क्षमादेरविरोधाद्धर्मविरुद्ध त्यागेनाऽनुवर्तनीयः ॥ १३२ ॥ दोषेणानुपकारी भवति, प्रत्युताऽपकारेण प्रवर्तते परो लोकः क्रुध्यति । आत्मना ॥ १३३ ॥ पिण्डैषणाध्ययनभणितो निश्चयेन कल्प्यो ग्राह्योऽकल्प्यः परिहार्यः, आगमे आदानासेवनयोर्नियतवृत्तेः । तेन-विधि - गृहीताहारेण ॥ १३४ ॥ व्रणे - गण्डे लेपः, अक्षस्य धुरा, सैवोपाङ्ग, अभ्यवहरेदित्यत्राऽपि योज्यं, असङ्गा-मनोवाक्कायेष्वसङ्गाः साधवस्तेषां योग्यः क्रियानुष्ठानं, तेषां भरः- सङ्घातः, स एव तन्मात्रं तस्य यात्रा - निर्वाहस्तदर्थं, धर्मानुष्ठाननिर्वाहार्थमित्यर्थः । पन्नगो यथा चर्वणवर्जितमेव गिलत्येवं साधुरपि, चिलातिपुत्रमारितधनश्रेष्ठिसुतामांसास्वादकपितृ पुत्रादिवद्वा, यथा तैः शरीरस्य धारणार्थमेव तत्कृतं तथा साधुरपि ॥ १३५ ॥ विशिष्टतरास्वादमगृद्धचित्तेन साधुनेति प्रक्रमः, तद्विपरीतमविद्यमानास्वादमपि द्वेषरहितेन, वृको यथा सरसं विरसं वा न विलोकयति, तद्वत्साधुनाऽपि दारूपमधृतिना - दारुतुल्यसमाधिनाऽऽस्वाद्यं वस्तु, [पुनरा ] स्वाद्यं - क्रिया ॥ १३६ ॥ कालमुष्णकालादि, स्निग्धेतरादि च क्षेत्रं सुभिक्षादिकं च, मात्रामल्पादिरूपसात्म्यं, यद्यस्योपभुक्तं परिणतिमेति । द्रव्याणांघृतगुडादीनां गुरुत्वं लघुत्वं, यद्वा येन द्रव्येणोपभुक्तेन गुणानां गौरवं शेषाणां लाघवं चाऽऽत्मनः स्यात् । भोज्यं वस्तु ॥१३७॥ For Private & Personal Use Only jainelibrary.org
SR No.600109
Book TitlePrashamrati Prakarana
Original Sutra AuthorUmaswami, Umaswati
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1940
Total Pages240
LanguageSanskrit
ClassificationManuscript
File Size10 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy