________________
प्रशमरतिः
॥ ६६ ॥
Jain Education
औत्सुक्यकारकाः - प्रकटोल्वणस्नेहरागा । निकपे - प्रान्ते । बीभत्सादिभिर्बहुलाः ॥ १०६ ॥ दुःखान्ताः ॥ १०७ ॥
शाकोऽष्टादशो यत्र तीमनं । मोदकाम्लकरसादि । परिणतिसमये ॥ १०८ ॥
उपचारश्चाटुकर्मविनयप्रतिपत्तिः शयनादिः । सम्भृत पिण्डितरम्यकानि रतिकराण्यविच्छेदकारिणः ॥ १०९ ॥ देवनारकाणां नियतकालं, अनियतकालं मनुष्यतिरश्चाम् ॥ ११० ॥
इष्टपरिणामाः सन्तोऽनिष्टपरिणामाः, अनिष्ट परिणामाः सन्तोऽभीष्टपरिणामाः । आलोचनीयः सर्वक्षेत्रावस्थाभावित्वात् । एवं चाऽनवस्थितपरिणाम विषयविरतावनुग्रहो गुणयोगतः । उपलक्षणत्वाद्बहुगुणश्चित्तप्रसन्नता ॥ १११ ॥
इत्थं गुणान्दोषरूपेण दोषांश्च गुणरूपेण यः पश्यति गुणदोषविपरीतोपलब्धिः । प्रथमाङ्गं विलोक्य परिरक्ष्यः ॥ ११२ ॥ विधिना विज्ञेयः ॥ ११३ ॥
शस्त्रपरिज्ञानामाऽऽद्यध्ययनार्थ संक्षेपेणाऽऽह - मातापित्रादिगौरवाणामृद्ध्यादीनां षड्डीवकाययतना प्रथमेऽध्ययने, गौरवस्त्यागो द्वितीये, द्वाविंशतिपरिषह विजयस्तृतीये, दृढसम्यक्त्वं चतुर्थे ॥ ११४ ॥
संसारोद्वेगः पञ्चमे, कर्मनिर्जरोपायः षष्ठे, वैयावृत्त्योद्यमः सप्तमे, तपोविधिरष्टमे, योषितां त्यागः - स्त्रीपरिहारो नवमे ११५ अम्बरं - वस्त्रं, भाजनं - पात्रकादि, तयोरेषणा, तथाऽवग्रहा देवेन्द्रादेः, एते कीदृशाः शुद्धाः -शुद्धिमन्तः ॥ ११६ ॥ स्थानं कायोत्सर्गरूपं, निषद्या - स्वाध्यायभूमिः, त्यागः - शब्दरूपयोररागः, क्रियाशब्दः सर्वत्र, परक्रियानिषेधः, प्रयत्नतस्त
For Private & Personal Use Only
अवचूर्णी ।
॥ ६६ ॥
ainelibrary.org