SearchBrowseAboutContactDonate
Page Preview
Page 61
Loading...
Download File
Download File
Page Text
________________ Jain Education 1 भोजनं भवति, तथा एतस्माद् द्वात्रिंशत्कवलप्रमाणाहारादेकेन द्वाभ्यां त्रिमिचतुर्भिः पञ्चादिभिर्वा कवलैन्यूने सति तस्मिन्नाहारे ऊनोदरिकाभिधस्तपोविशेषो भवतीति ११८ ॥ ८१४-८१५ ॥ इदानीं 'दुहसेज्जचउक्कं 'ति एकोनविंशत्युत्तरशततमं द्वारमाह पवयणअसद्दहाणं १ परलाभेहा य २ कामआसंसा ३ । पहाणाइपत्थणं ४ इय चत्तारिऽवि दुक्खसेज्जाओ ॥ ८१६ ॥ सुहसेज्जाओऽवि चउरो जइणो धम्माणुरायरत्तस्स । विवरीयायरणाओ सुहसेजाउत्ति भन्नंति ॥ ८१७ ॥ 'पवे 'त्यादिगाथाद्वयं शेरते आस्थिति शय्याः दुःखदाः शय्या दुःखशय्याः, ताश्च द्वेधा- द्रव्यतो भावतश्च वत्र द्रव्यतोऽमनोज्ञखद्वादिरूपाः, भावतो दुःस्थितचित्ततया दुःश्रमणतास्वभावास्ताश्चतस्रः, तत्र प्रवचनस्य - जिनशासनस्याश्रद्धानं - एवमेवेदमिति प्रतिपत्यभाव इति प्रथमा दुःखशय्या, तथा परेषां - अन्येषां लाभस्य वस्त्राद्यवाप्तेरीहा - प्रार्थनेति द्वितीया, चः समुच्चये, तथा कामानां - मनोज्ञशब्दरूपादीनामाशंसनं-अभिलषणमिति तृतीया, तथा स्नानादीनां यात्राभ्यङ्गमर्द्दनप्रक्षालनादीनां प्रार्थनं -आकाङ्क्षणमिति चतुर्थी, | आसु हि किष्टभावस्वभावासु श्रामण्यशय्यासु स्थितो जीवः कदाचिदपि श्रामण्यस्य न सुखमासादयतीति चतस्रो दुःखशय्याः ११९ ॥ ८१६ ॥ इदानीं विंशत्युत्तरशततमं 'सुहसेज्जचउक्कं 'ति द्वारमाह-- 'सुहे'त्यादि, 'यतेः' साधोः 'धर्मानुरागर कस्य' धर्मे - जिनधर्मे | अनुरागेण - गाढतराभिलाषरूपेण रक्तस्य - आसक्तस्य सुखशय्या एवं चतस्रोऽपि 'विपरीताचरणात् ' पूर्वोक्तप्रवचनाश्रद्धानादिदुःखशय्यावैपरीत्यकरणतः सुखशय्या इति भण्यन्ते, अयं भावः - प्रवचनश्रद्धानं परलाभानीहनं कामादीनामनाशंसनं स्नानादीनामप्रार्थनं यतेः For Private & Personal Use Only www.jainelibrary.org
SR No.600108
Book TitlePravachan Saroddhar Uttararddh
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1926
Total Pages628
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy