SearchBrowseAboutContactDonate
Page Preview
Page 57
Loading...
Download File
Download File
Page Text
________________ 545-45 OCRATES %A4 शय्यातरपिण्डग्रहणे दोषानाह-तित्थंकरे'त्यादि, तीर्थकरैः सर्वैरपि प्रतिकुष्टो-निषिद्धः शय्यातरपिण्डः, तं च गृह्णता तीर्थकराज्ञा न कृता स्यात् , तथा अज्ञातस्य-अविदितस्य राजादिप्रत्रजितत्वेन उब्छवृत्त्या यद्भक्षं तदज्ञातमुच्यते तदेव प्रायः साधुना ग्राह्यं 'अन्नायउञ्छं चरई विसुद्धं' इति वचनात् , तच्चासन्ननिवासादतिपरिचयेन ज्ञातस्वरूपतया शय्यातरगृहे पिण्डं गृहन्न शुद्ध्यतीति योगः, तथा शय्यातरपिण्डग्रहणे सति 'उद्गमः' कल्पनीयभक्तादिभवनमपि 'न शुद्ध्यति' न शुद्धो भवति, निकटादिभावेन पुनः पुनस्तत्रैव भैक्षपानकादिनिमित्तं प्रविशत उद्गमदोषाः स्युरित्यर्थः, तथा स्वाध्यायश्रवणादिभ्यः प्रीतः शय्यातरः क्षीरादि स्निग्धद्रव्यं ददाति तच्च गृह्णता विमुक्तिः-गााभावो न कृतः स्यात् , तथा अविद्यमानं लाघवं-लघुता यस्य स तथा तद्भावोऽलाघवता, तत्र विशिष्टाहारलाभेनोपचितत्वाच्छरीरालाघवं शय्यातरात्तत्परिजनाञ्चोपधेर्लाभादुपधेरनल्पतया तदलाघवमिति, तथा दुर्लभा-असुलभा शय्या च-वसतिः कृता भवति, येन किल शय्या देया तेनाहाराद्यपि देयमित्येवं गृहिणां भयोत्पादनात् , तथा व्यवच्छेदो-विनाशो दानभयाच्छय्यायाः शय्यातरेण क्रियते, वसत्यभावाद्वा भक्तपानशय्यादिव्यवच्छेदः स्यादिति ॥ ८०६ ॥ तथा-'पुरे'त्यादि, पूर्वः-ऋषभस्वामी पश्चिमो-वर्धमानस्वामी एतौ द्वावपि मुक्त्वा शेषैर्जिनवरैः-द्वाविंशतिसबैमध्यमतीर्थकृद्भिविदेहजैश्च-महाविदेहक्षेत्रसमुत्पन्नैः सर्वैरपि तीर्थकरैः 'अवि कम्मति अपिः-सम्भावने कर्म-आधाकर्म 'लेशेन' एकदेशेन भुक्तं, 'न च' नैव 'सागारिकस्य' शय्यातरस्य पिण्डः, मध्यमविदेहतीर्थकराणां । हि यस्यैव योग्यमाधाकर्म कृतं तस्यैव तन्न कल्पते शेषाणां तु कल्पते इति तैराधाकर्मभोजनमपि कथञ्चिद्नुमतं, सागारिकपिण्डः पुनः सर्वथापि प्रतिषिद्ध एवेति, अयं च सागारिकपिण्डो द्वादशधा अशनपानखादिमस्वादिम ४ रजोहरणवस्त्रपात्रकम्बल ४ सूचीपिष्पलककर्णशोधननखरदनिका ४ भेदात् , उक्तं च-"असणाईया चउरो ४ पाउञ्छण ५ वत्थ ६ पत्त ७ कंबलयं ८ । सूई ९ छुर १० %945 REESORN- Jain Education For Private & Personel Use Only www.jainelibrary.org
SR No.600108
Book TitlePravachan Saroddhar Uttararddh
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1926
Total Pages628
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy