SearchBrowseAboutContactDonate
Page Preview
Page 55
Loading...
Download File
Download File
Page Text
________________ Jain Education यतिप्रदत्तोपाश्रयस्वामी प्रभुसन्दिष्टो वा तेनैव प्रभुणा यत्कृतप्रमाणतया निर्दिष्टः, तत्र यः प्रभुः स एको वा भवेदनेको वा, प्रभुसन्दिष्टोऽप्येवमेव वाच्यः कोऽर्थः ? - प्रभुसन्दिष्टोऽप्येको वाऽनेको वा भवतीति ।। ८०० ।। अमुमेवार्थ विशेषत आह— 'सागारिये 'त्यादि, सागारिकःसाधूपाश्रयस्वामी सन्दिष्टच - प्रभुसन्दिष्टः प्रत्येकमेको वाऽनेके वा भवन्ति, ततश्चतुष्कभजना - चतुर्भङ्गी ज्ञातव्या, तद्यथा - एकः प्रभुरेकः प्रभुसन्दिष्ट इति प्रथमो भङ्गः एकः प्रभुरनेके प्रभुसन्दिष्टा इति द्वितीयः अनेके प्रभव एकः प्रभुसन्दिष्ट इति तृतीयः, अनेके प्रभवोऽनेके च प्रभुसन्दिष्टा इति चतुर्थो भङ्गः, ते च शय्यातरा एको वाऽनेके वा वर्जनीयाः, अत्रैवापवादमाह - ' अणेगेसु य ठावए एगंति अनेकेषु बहुषु शय्यातरेषु सत्सु एकं कमप्यपवादपदेन शय्यातरं स्थापयेत् इयमत्र भावना - बहुजनसाधारणा वसतिः कापि लब्धा, तत्र च साधुसामाचारीकुशलाः श्रावका यद्येवं वदन्ति एकं कमपि शय्यातरं स्थापयत मा सर्वानपि परिहरतेति तदा एकं शय्यातरं स्थापयित्वा शेषगृहेषु भिक्षां गृह्णन्ति, यद्वा बहवस्तत्र साधवस्ततो यदि सर्वेऽपि संस्तरन्ति तदा सर्वानपि शय्यातरान् कुर्वन्ति, असंस्तरणे तु एकं शय्यातरमिति, ग्रहणविधिश्वायं द्वयोः शय्यातरयोरेकान्तरेण भिक्षाग्रहणवारको भवति त्रिषु शय्यातरेषु तृतीयदिने चतुर्षु चतुर्थदिने एवं वारकेण मिक्षां गृहन्तीति ।। ८०१ ।। अथायं शय्यातरः कदा भवति ?, तत्राह - 'अन्नत्थे'त्यादि, अन्यत्र-अन्यस्मिन् कस्मिंश्चित् सार्थे ग्रामादौ वा उषित्वा सुध्वेत्यर्थः चरमं प्राभातिकमावश्यकं - प्रतिक्रमणमन्यत्र - स्थानान्तरे गत्वा यदि कुर्वन्ति तदा द्वावपि 'तर'त्ति एकदेशेन समुदायोपचारात् शय्यातरौ भवतः यस्यावग्रहे रात्रौ सुप्तो यदवप्रहे च प्राभातिक प्रतिक्रमणं कृतं तौ द्वावपि शय्यातरौ भवत इति भावः, इदं च प्रायशः सार्थादिषु सम्भवति आदिशब्दाच्च चौरावस्कन्दभयादिपरिग्रहः, अन्यथा तु- प्रकारान्तरसद्भावे भजना - शय्यातरस्य विकल्पना, यस्य गृहे स्थिताः स वाऽन्यो वा शय्यातरो भवतीत्यर्थः ॥ ८०२ ॥ तामेव भजनामाह For Private & Personal Use Only •ww.jainelibrary.org
SR No.600108
Book TitlePravachan Saroddhar Uttararddh
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1926
Total Pages628
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy