________________
यद्गद्यगुम्फोर्मिभिः, यद्वाग्वैभवभङ्गिमिः कति नहि प्राप्यन्त हर्ष नृपाः । यत्तीव्रतमुद्रया कति न चानीयन्त चित्रं जना, यद्वा किं बहु जल्पितेन निखिलं यत्कृत्यमत्यद्भुतम् ॥ १६ ॥ तेषां गुणिषु गुरूणां शिष्यः श्रीसिद्धसेनसूरिरिमाम् । प्रवचनसारोद्धारस्य वृत्तिमकरोदतिस्पष्टाम् ॥ १७ ॥ करिसागररविसङ्ख्ये १२४८ श्रीविक्रमनृपतिवत्सरे चैत्रे । पुष्यार्कदिने शुक्लाष्टम्यां वृत्तिः समाप्ताऽसौ ॥ १८ ॥ तारकमुक्तोचूले शशिकलशे गगनमरकतच्छत्रे । दण्ड इव भवति यावत् कनकगिरिर्जयतु तावदियम् ॥ १९ ॥
इति श्रीमद्विद्वद्धुरन्धरनेमिचन्द्राचार्यकृतमूलः
श्रीमत्सिद्धसेनसूरिपुरन्दरसूत्रितवृत्तियुतः श्रीमान् प्रवचनसारोद्धारः समाप्तिमगमत्
श्रेष्ठि देवचन्द्र लालभाई जैनपुस्तकोद्धारे ग्रन्थाङ्कः ६४ यायावसायायायायायायचाचा
Jain Education International
For Private & Personel Use Only
www.jainelibrary.org