________________
COMICROADC
एहिं व ॥ ९७ ॥ पवयणसारुद्वारो रइओ सपरावबोहकजंमि । जंकिंचि इह अजुत्तं बहुस्सुआतं विसोहंतु ॥९८ ॥ जुम्म। धर्म:-सर्वक्षप्रणीतः स एव जीवा दिपदार्थाधारत्वेन धरा-पृथिवी तस्या यदुद्धरणं-स्वरूपभ्रंशरक्षणाद्यथावस्थितत्वेनावस्थापन तद्विषये महावराहा-आदिवराहा ये श्रीजिनचन्द्रसूरयस्तच्छिष्याणां श्रीआयदेवसूरीणां पादपङ्कजपरागैः-क्रमकमलकिञ्जल्कभूतैः श्रीमद्विजयसेनगणधरकनिष्ठैर्यशोदेवसूरीणां च ज्येष्ठैः श्रीनेमिचन्द्र सूरिभिः सविनयं शिष्यभणितैः सांयात्रिकैरिव-प्रावह णिकैरिव समयरत्नाक-15 रात्-सिद्धान्तसमुद्राद्रनानीव सदानि-शोभनाभिधेयानि षट्सप्तत्युत्तरद्विशतसङ्ख्यानि द्वाराणि निपुणनिभालनपूर्व गृहीत्वा प्रवचन-1 सारोद्धारो नाम ग्रन्थः स्वपरावबोधकार्यनिमित्तं रचितो-निर्मितः, यच्चेह किञ्चिदयुक्तमुक्तं तद्बहुश्रुता विशोधयन्तु ॥ इह यद्यपि यद्भवितव्यं तदेव भवति तथापि शुभाशयफलत्वाच्छोभनार्थेष्वाशंसा विधेयेति दर्शनार्थमाशंसां कुर्वन्नाह
जा विजयइ भुवणत्तयमेयं रविससिसुमेरुगिरिजुत्तं । पवयणसारुद्धारो ता नंदउ बहु पढिजतो
यावदेतद्विजयते भुवनत्रयं-स्वर्गमर्त्यपाताललक्षणं रविशशिसुमेरुगिरियुक्तं-दिनकरतुहिनकरसुरगिरिपरिगतं तावदयं प्रवचनसारोद्धारपन्थो बुधैः-तत्त्वावबोधबन्धुरखुद्धिभिः पठ्यमानो नन्दतु-शिष्यप्रशिष्यपरम्पराप्रचारितरूपां समृद्धिमासादयतु ॥ १५९९ ॥ (ग्रन्थानं १८०००) इति श्रीसिद्धसेनसूरिविरचिता प्रवचनसारोद्धारवृत्तिः समाप्ता ॥
Jain Education International
For Private & Personel Use Only
www.jainelibrary.org