SearchBrowseAboutContactDonate
Page Preview
Page 481
Loading...
Download File
Download File
Page Text
________________ नव दरिसणंमि ९चत्तारि आउए ४ पंच आइमे अंते ५। सेसे दो दो भेया ८ खीणभिलावेण इगतीसं ॥९३ ॥ पडिसेहण संठाणे य वन्नगंधरसफासवेए य । पण ५ पण ५ दु२ पण ५१ ८तिहा एगतीसमकाय १ऽसंग २ रुहा ३ ॥१४॥ दर्शने-दर्शनावरणीये कर्मणि चक्षुर्दर्शनाचक्षुर्दर्शनावधिदर्शनकेवलदर्शनावरणनिद्रानिद्रानिद्राप्रचलाप्रचलाप्रचलास्त्यानर्धिलक्षणा नव भेदाः तथाऽऽयुषि नारकतिर्यग्नरामरायुलक्षणाश्चत्वारः तथाऽऽदिमे-ज्ञानावरणीये मतिश्रुतावधिमनःपर्यवकेवलज्ञानावरणीयस्वरूपाः पञ्च अन्येऽप्यन्तरायाख्ये कर्मणि दानलाभभोगोपभोगवीर्यान्तरायरूपाः पञ्चैव भेदाः, शेषे च कर्मचतुष्के प्रत्येकं द्वौ द्वौ भेदौ, तत्र वेदनीये सातासातात्मको मोहनीये दर्शनमोहनीयचारित्रमोहनीयलक्षणी नामकर्मणि शुभनामाशुभनामको गोत्रे चोचैर्गोत्रनीचैर्गोत्राभिधौ भेदो भवत इति, तदेवमेते सर्वेऽपि भेदाः क्षीणामिलापेन-क्षीणशब्दविशेषितत्वेन प्रोचार्यमाणा एकत्रिंशत्सङ्ख्याः सिद्धानां गुणा भवन्ति, क्षीणचक्षुदर्शनावरण इत्यादिकश्चामिलापः कार्य: ।। ९३ ॥ अथवा प्रकारान्तरेणैकत्रिंशत्सिद्धगुणानाह-'पडिसेहे'त्यादि, प्रतिषधननिषेधेन संस्थानवर्णगन्धरसस्पर्शवेदानां क्रमेण पञ्चपञ्चद्विपश्चाष्टत्रिभेदानां तथा अकायासङ्गारुहपत्रिवयेन चैकत्रिंशत्सिद्धगुणा भवन्ति, तत्र संतिष्ठन्ते एभिरिति संस्थानानि-आकाराः, तानि च पञ्च परिमण्डलवृत्तव्यस्रचतुरस्रायतभेदात्, तत्र परिमण्डलं संस्थान बहिवृत्ततावस्थितप्रदेशजनितमन्तःशुषिरं यथा वलयस्य, तदेवान्तः पूर्ण वृत्तं यथा दर्पणस्य, व्यत्रं-त्रिकोणं यथा शृङ्गाटकस्य, चतुरस्रंचतुष्कोणं यथा स्तम्भाधारकुम्भिकायाः, आयतं-दीर्घ यथा दण्डस्य, घनप्रतरादिप्रतिभेदव्याख्या च बृहदुत्तराध्ययनटीकादिभ्योऽवसेया, तथा वर्णाः पञ्च श्वेतपीतरक्तनीलकालभेदात् , गन्धो द्विधा-सुरभीतरभेदात् , रसाः पञ्च तिक्तकटुकषायाम्लमधुरभेदात् , Jain Education International For Private Personel Use Only www.jainelibrary.org
SR No.600108
Book TitlePravachan Saroddhar Uttararddh
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1926
Total Pages628
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy