________________
अभावे अपरा-पश्चिमेत्यर्थः तस्या अप्यभावे दक्षिणपूर्वा-आग्नेयीत्यर्थः तस्या अप्यभावेऽपरोत्तरा-वायवीति भावः तस्या अप्यभावे पूर्वा | तस्या अप्यलाभे उत्तरा तस्या अप्यलाभे पूर्वोत्तरा ऐशानीत्यर्थः, इह च यत्र प्रामादौ मासकल्पं वर्षावासं वा गीतार्थाः साधवः |संवसन्ति तत्र प्रथममेव पूर्वोक्तासु दिक्षु परिष्ठापने मृतोज्झननिमित्तं त्रीणि महास्थण्डिलानि प्रत्युपेक्षन्ते-आसन्ने मध्ये दूरे च, किं कारणमिति चेत्तत्र ब्रूमः-प्रथमस्थण्डिले कदाचिद्व्याघातो भवेत् , तथाहि-क्षेत्रं तत्र केनापि कृष्टं उदकेन वा तत् प्लावितं हरितकायो वा तत्राजनि कीटिकादिमिर्वा तत्संसक्तं जातं ग्रामो वा तत्र निविष्टः सार्थो वा कश्चित्तत्रावासित इत्यतो द्वितीये स्थण्डिले परिष्ठापनं विधेयं, तस्याप्येतैरेव हेतुभिर्व्याघाते तृतीये स्थण्डिले परिष्ठापनं कार्यमिति ।। ७८३ ॥ सम्प्रति प्रथमायां दिशि सत्यां शेषदिक्षु परिष्ठापने दोषमाह-'पउरे'त्यादिगाथाद्वयं, 'पउरन्नपाण पढमा' इत्यत्र प्राकृतत्वात्सप्तम्या लोपः, ततः प्रथमायाम्-अपरदक्षिणायां परिष्ठापने प्रचुरानपानवस्त्रपात्रादिलाभतः समाधिरुपजायते, तस्यां सत्यां द्वितीयस्यां दक्षिणायां परिष्ठापने भक्तपाने न लभन्ते, तृतीयस्यां-पश्चिमायामुपध्यादि न लभन्ते, चतुर्थ्या-दक्षिणपूर्वस्यां नास्ति स्वाध्यायः स्वाध्यायाभाव इत्यर्थः ॥ ७८४ ।। पञ्चम्याम्अपरोत्तरस्यां 'असंखडित्ति कलहः संयतगृहस्थान्यतीथिकादिभिः सह, षष्ठयां-पूर्वस्यां गणस्य-च्छस्य भेदनं-भेदं जानीहि,
गच्छभेदो भवतीत्यर्थः, सप्तम्याम्-उत्तरस्यां ग्लानत्वं-रोगोत्पत्तिः, अष्टमीति प्राकृतत्वाद्विभक्तिलोपे अष्टम्यां-पूर्वोत्तरस्यां दिशि मृतद कपरिष्ठापने मरणं पुनर्बुवते, अन्यः कश्चित्संयतो म्रियते इत्यर्थः, इह च पानीयस्तेनभयादिव्याघातसद्भावतः पूर्वपूर्वदिगलाभे उत्तरो
त्तरस्यामपि दिशि मृतकपरिष्ठापने प्रचुरानपानलाभलक्षणः प्रथमदिक्प्रतिपादित एव गुणोऽवसेयः, यदा पुनः पूर्वपूर्वदिक्सद्भावे उत्तरो४त्तरस्यां दिशि परिष्ठापयन्ति तदा पाश्चात्या एव दोषा भवन्तीति ।। ७८५ ।। उक्ता अचित्तसंयतपरिष्ठापनदिक्, इदानीमुच्चारकरणदिगमि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org