SearchBrowseAboutContactDonate
Page Preview
Page 424
Loading...
Download File
Download File
Page Text
________________ अव० सा रोद्धारे तत्त्वज्ञा- १ नवि० ★ ४१८ ॥ च प्रत्येकं द्विप्रदेशिकादीनां स्कन्धानामेव मन्यान्यद्रव्यक्षेत्रकालभावसम्बन्धिनामनन्ताः समया अतीता अनागता अपीति सिद्धं पुद्गलेभ्यः समयानाम नन्तगुणत्वं, तेभ्यः सर्वद्रव्याणि विशेषाधिकानि कथमिति चेद् उच्यते इह ये अनन्तरमद्धासमयाः पुद्गलेभ्योऽनन्तगुणा उक्तास्ते प्रत्येकं द्रव्याणि ततो द्रव्यचिन्तायां तेऽपि गृह्यन्ते तेषु मध्ये सर्वजीवद्रव्याणि सर्वपुद्गलद्रव्याणि धर्माधर्माकाशास्तिकायद्रव्याणि च प्रक्षिप्यन्ते तानि च समुदितान्यप्यद्धासमयानामनन्तभागकल्पानीति तेषु प्रक्षिप्तेष्वपि मनागधिकत्वं जातमित्यद्धासमयेभ्यः सर्वद्रव्याणि विशेषाधिकानि, तेभ्यः सर्वप्रदेशा अनन्तगुणाः, एकस्याप्यलोकाकाशद्रव्यस्य सर्वद्रव्यानन्तगुणप्रदेशत्वात्, तेभ्यः सर्वपर्यवा अनन्तगुणाः, एकैकस्मिन्ना काशप्रदेशेऽनन्तानामगुरुलघुपर्यायाणां सद्भावादिति ॥ २६३ ॥ ३६ ॥ इदानीं 'जुगप्पहाणसूरिसंख'त्ति चतुःषष्ट्यधिकद्विशततमं द्वारमाह— जादुपसह सूरी होहिंति जुगप्पहाण आयरिया । अज्जहुम्मप्पभिई चउरहिया दुनिय सहस्सा ॥ ३७ ॥ इहावसर्पिण्यां दुष्षमावसानसमये द्विहस्तोच्छ्रितवपुर्विंशतिवर्षायुष्कः पुष्कलतपःक्षपितकर्मतया समासन्नसिद्धिसौधः शुद्धान्तरात्मा दशवैकालिकमात्रसूत्रधरोऽपि चतुर्दशपूर्वधर इव शक्रपूज्यो दुप्रसभनामा सर्वान्तिमः सूरिर्भविष्यति, ततस्तं दुष्प्रसभं यावत्तमभिव्याप्यैवेत्यर्थः, आर्यसुधर्मप्रभृतयः आरात् सर्वद्देयधर्मेभ्योऽर्वाग्यातः आर्यः स चासौ सुधर्मस्तत्प्रभृतयः, प्रभृतिप्रहणाञ्च जम्बूस्वामिप्रभव| शय्यम्भवाद्या गणधरपरम्परा गृह्यते, युगप्रधानाः- तत्कालप्रचरत्पारमेश्वरप्रवचनोपनिषद्वेदित्वेन विशिष्टतरमूलगुणोत्तरगुणसंपन्नत्वेन च तत्कालापेक्षया भरतक्षेत्रमध्ये प्रधाना आचार्याः - सूरयश्चतुरधिकसहस्रद्वयप्रमाणा भविष्यन्ति, अन्ये तु चतूरहितसहस्रद्वयप्रमाणा इत्याहुः, Jain Education International For Private & Personal Use Only २६४ युग प्रधानाः १४३७ ॥ ४१८ ॥ www.jainelibrary.org
SR No.600108
Book TitlePravachan Saroddhar Uttararddh
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1926
Total Pages628
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy