________________
5555
नुगत्या हि प्रवर्तमानः पुमान् न जातुचिदपि विपदः पदं भवति १७ विनीतो-गुरुजनगौरवकृत, विनयवति हि सपदि संपदः प्रादु-15 भवन्ति १८ स्वल्पमप्युपकारमैहिकं पारत्रिकं वा परेण कृतं जानाति न निहते इति कृतज्ञः, कृतघ्नो हि सर्वत्राप्यमन्दा निन्दा समा-1 |सादयति १९ परेषां-अन्येषां हितान-पथ्यानर्थान्-प्रयोजनानि कर्तुं शीलं यस्य स परहितार्थकारी, सदाक्षिण्योऽभ्यर्थित एव करोति अयं पुनः स्वत एव परहिताय प्रवर्तते इत्यनयोर्भेदः, यश्च प्रकृत्यैव परहितकरणे नितरां निरतो भवति स निरीहचित्ततयाऽन्यानपि सद्धर्मे स्थापयति २० तथा लब्धमिव लब्धं लक्षं-शिक्षणीयानुष्ठानं येन स लब्धलक्षः, पूर्वभवाभ्यस्तमिव सर्वमपि धर्मकृत्यं झटित्येवाधिगच्छतीति भावः, ईदृशो हि वन्दनप्रत्युपेक्षणादिकं धर्मकर्म सुखेनैव शिक्षयितुं शक्यते २१, तदेवमेकविंशतिगुणसंपन्नः श्राद्धः -श्रावको भवतीति २३९ ॥ ५६ ॥ ५७ ॥ ५८ ॥ इदानीं 'तेरिच्छीणुक्किट्ठ गन्भट्ठिइ'त्ति चत्वारिंशदधिकशततमं द्वारमाह
उक्किट्ठा गब्भठिई तिरियाणं होइ अट्ठ वरिसाई। माणुस्सीणुकिट्ठ इत्तो गम्भट्टि वुच्छं ॥५९॥ .. उत्कृष्टा गर्भस्थिति:-गर्भावस्थानं तिरश्चीनां-तिर्यग्योषितां भवत्यष्टौ वर्षाणि, ततः परं गर्भस्य विपत्तिः प्रसवो वेति २४०॥ इदानीं 'माणुसीणुक्किट्ठा गभठिइ'त्ति तथा 'तग्गब्भस्स कायडिईत्त्येकचत्वारिंशदधिकद्विचत्वारिंशदधिकद्विशततमे द्वारे आह
गब्भट्ठिइ मणुस्सीणुक्किट्ठा होइ वरिसबारसगं । गभस्स य कायठिई नराण चउवीस वरि
साई॥६॥ मानुषीणां-मनुष्यत्रीणामुत्कृष्टा गर्भस्थितिर्भवति वर्षद्वादशकं-द्वादशवर्षप्रमाणा, अयमर्थ:-कश्चिजन्तुराविभूतप्रभूतपापामिभूतवपुर्वा४ तपित्तादिदूषिते देवादिस्तम्भिते वा गर्भे द्वादश वर्षाणि निरन्तरं तिष्ठतीति, इयं च भवस्थितिरुक्का, कायस्थितिः पुनर्नराणां गर्भस्य
Jain Education International
For Private & Personel Use Only
www.jainelibrary.org