SearchBrowseAboutContactDonate
Page Preview
Page 33
Loading...
Download File
Download File
Page Text
________________ SURROUSSUSHISAIAS ६ तदेवं प्रचुरग्रन्थनिर्माणनिपुणा ये तैः कृतमेव कुलकमत्र निरदेशीति ज्ञायते, अपरे तु श्रीचन्द्राः श्रीशीलभद्रशिष्यधनेश्वरशिष्याः | श्रीचन्द्रा यैः सुबोधा सामाचारी एकविंशे द्वादशशतके कृता श्रीचैत्यवन्दनलघुवृत्तिश्च, श्रीसनत्कुमारचरित्रं तु चतुर्दशाधिकद्वादशताब्दीमितेऽब्दे श्रीचन्द्रामिधानसूरिसंहब्धमस्ति, परं तत् कैय॑धायीति संदिग्धमेव, लघुप्रवचनसारोद्धारकारकास्तु श्रीचन्द्राः एनं प्रन्थमवलोक्य लघुप्रवचनकारकतया अर्वाचीना अन्ये एवेति । श्रीसिद्धसेनसूरीश्वराः । व्याख्यातारोऽस्य श्रीमन्तः सिद्धसेनसूरीश्वराः, ते च त्रयोदशशताब्द्यां जाता इति प्रस्तुतवृत्तिगतान्त्यलेखेन निःसंदिग्धमेव, यतोऽवाचि तत्र 'करिसागररविसंख्ये श्रीविक्रमनृपतिवत्सरे चैत्रे । पुष्यार्क दिने शुक्लाष्टम्यां वृत्तिः समाप्ताऽसौ ॥ १८ ॥ ___व्याख्या चासौ ग्रन्थरत्नस्य विशेषेणैव तत्त्वं विकाशयतीति व्याख्यातृमिनिर्मिताऽस्याभिधा तत्त्वप्रकाशिनीति, अत एवोक्तं प्रशस्ती 'तत्त्वज्ञानविकाशिनीमह मिमा वृत्तिं सुबोधां व्यधा'मिति । परे यद्यपि सिद्धसेनाभिधाः सूरिपुरन्दराः पंच इत्याख्यान्ति, तन्न चारु, सिद्धर्षिसिद्धसूर्योः तथाभिधानाभावादेव, किंच-तत्त्वार्थ-IN टीकाकाराः सिद्धसेनाचार्या आचार्यभास्वामिशिष्याः सन्ति, परं ते श्रीजिनभद्रक्षमाश्रमणेभ्यः प्राचीना इति कश्चित् तन्नावितथं, यतः तद्वृत्तावेव उपयोगविचारे आकाशान्तानां निष्क्रियत्वविचारे च स्पष्टतया क्षमाश्रमणानां नामोल्लेखात् , त्रिषु सिद्धसेनाभिधेषु सूरिपुरन्दरेषु अन्त्या एवैते, यतः श्रीसिद्धसेनदिवाकराणां सत्ता विक्रमसमकालीना, तत्त्वार्थवृत्तिकारा अपि एभ्यः प्रत्ना एव, यतः३८-३३७ SCREEKRISARGAA%EX Jain Educat MAH International For Private & Personel Use Only www.jainelibrary.org
SR No.600108
Book TitlePravachan Saroddhar Uttararddh
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1926
Total Pages628
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy