SearchBrowseAboutContactDonate
Page Preview
Page 273
Loading...
Download File
Download File
Page Text
________________ % त्यमाह-'रोमे'त्यादि, शरीरपर्याप्त्या पर्याप्ताः मतान्तरेण सर्वस्खयोग्यपर्याप्तिपर्याप्ता एकेन्द्रिया नैरयिकाः सुरगणाश्च सर्वे लोमाहारा एव ज्ञातव्याः, न पुनः प्रक्षेपाहाराः, तत्र एकेन्द्रियाणां प्रक्षेपाहाराभावो मुखाभावात् , नैरयिकदेवानां तु वैक्रियशरीरतया तथास्वभावात् , उक्तं च-"एगिदियदेवाणं नेरइयाणं च नत्थि पक्खेवो । सेसाणं जीवाणं संसारत्थाण पक्खेवो ॥१॥" [ एकेन्द्रियदेवानां नैरयिकाणां च नास्ति प्रक्षेपः । शेषाणां जीवानां संसारस्थानां प्रक्षेपः ॥ १ ॥] शेषाणां-द्वित्रिचतुरिन्द्रियाणां तिर्यक्पञ्चेन्द्रियाणां मनुष्याणां चाहारो लोनि-लोमविषयः प्रक्षेपतश्च भवति, उभयरूपस्याप्याहारस्य तेषां सम्भवात् ।। ८२ ॥ अथ देवानामाहारविषयं विशेषमाह-'ओयेत्यादि, सर्वेऽपि भवनपत्यादयः सुरगणा अपर्याप्तावस्थायामोजआहाराः, पर्याप्तावस्थायां मनोभक्षिणो-मनसा चिन्तितोपनतान् सकलेन्द्रियावादकमनोज्ञपुद्गलान् भक्षयन्तीव भक्षयन्ति-वैक्रियशरीरेणात्मसात्कुर्वतीत्येवंशीला मनोभक्षिणः, इयमत्र भावना-यथा शीतपुद्गलाः शीतयोनिकस्य प्राणिनः सुखित्वायोपकल्पन्ते उष्णाः पुद्गला वा उष्णयोनिकस्य तथा देवैरपि मनसाऽभ्यव| हियमाणाः पुद्गलास्तेषां तृप्तये परमसन्तोषाय चोपकल्पन्ते, तत आहारविषयाभिलाषनिवृत्तिर्भवतीति, शेषाः-सुरव्यतिरिक्ता जीवा नैरयिकादयोऽपर्याप्तावस्थायामोजआहाराः, पर्याप्तास्तु लोमाहारा ज्ञातव्याः, न पुनर्मनोभक्षिणः, मनोभक्षणलक्षणो ह्याहारः स उच्यते ये तथाविधशक्तिवशान्मनसा स्वशरीरपुष्टिजनकाः पुद्गला अभ्यवह्रियन्ते यदभ्यवहरणानन्तरं च तृप्तिपूर्वः परमसन्तोष उपजायते, न चैतन्नैरयिकादीनामस्ति प्रतिकूलकर्मोदयवशतस्तेषां तथारूपशक्त्यभावात् ।। ८३ ॥ पुनरत्रैव विशेषमाह-'अपजेत्यादि, आभोगनमा भोगः-आलोचनमभिसन्धिरित्यर्थः आभोगेन निर्वर्तितः-उत्पादित आभोगनिवर्तितः आहारयामीतीच्छापूर्व निर्मापित इतियावत् , तद्विलापरीतोऽनाभोगनिर्वर्तितः, आहारयामीति विशिष्टेच्छामन्तरेण निष्पाद्यते यः प्रावृट्काले प्रचुरतरमूत्राद्यभिव्यङ्ग्यशीतपुद्गलाद्याहारवत् सोऽ %A4-%-5555 Jain Education International For Private Personal Use Only www.ainelibrary.org
SR No.600108
Book TitlePravachan Saroddhar Uttararddh
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1926
Total Pages628
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy