________________
स्मरकथामिजल्पः ३ ॥ ६३ ॥ ६४ ॥ हसितं च-वक्रोक्तिगर्भ हसनं ४ ललितं-पासकादिक्रीडा ५ उपगूढं-गाढतरपरिष्वक्तं ६ दन्तपातो-दशनच्छेदविधिः ७ नखनिपात:-कररुहविपाटनप्रकारः ८ चुम्बन-वक्रसंयोगः ९ आलिङ्गन-ईषत्स्पर्शनं १० आदानं-कुचादिग्रहणं ११ 'करसेवर्ण'ति प्राकृतशैल्या करणासेवने, तत्र करणं-सुरतारम्भयत्रं चतुरशीतिभेदं वात्स्यायनप्रसिद्धं १२ आसेवनं| मैथुनक्रिया १३ अनङ्गक्रीडा च-आस्यादावर्थक्रियेति १४ ॥ १६९ ॥ ६५ ॥ इदानीं 'दस पाण'त्ति सप्तत्यधिकशततमं द्वारमाह
इंदिय ५ बल ३ ऊसासा १ उ १ पाण चउ छक्क सत्त अटेव । इगि विगल असन्नी सन्नी नव दस
पाणा य बोद्धवा ॥६६॥ __इन्द्रियबलोच्छ्वासायूंषि प्राणा इत्यभिधीयन्ते, ते च दश, तत्रेन्द्रियाणि-स्पर्शनादीनि पञ्च, बलं कायवाङ्मनोभेदात् त्रिधा, उच्छासशब्देनाविनाभावित्वान्निःश्वासो गृह्यते तत उच्छासनिःश्वासरूप एको भेदः, आयुश्च दशममिति । सम्प्रति येषां जीवानां यावन्तः प्राणाः सम्भवन्तीत्येतदाह-'चउछक्के'त्यादि, इह सूचकत्वात्सूत्रस्य 'इगि'त्ति एकेन्द्रियाः 'विकल'त्ति विकलेन्द्रियाः द्वित्रिचतुरिन्द्रिया इत्यर्थः, तत एकेन्द्रियाणां द्वित्रिचतुरिन्द्रियाणां च यथासङ्ख्यं चत्वारः षट् सप्त अष्टौ च प्राणा भवन्ति, इयमत्र भावना-स्पर्शनेन्द्रियकायबलोच्छासायुर्लक्षणाश्चत्वारः प्राणा एकेन्द्रियाणां पृथिव्यादीनां, स्पर्शनेन्द्रियरसनेन्द्रियकायबलवाग्बलोच्छासायुःस्वरूपाः षट् । प्राणा द्वीन्द्रियाणां, त एव घ्राणेन्द्रियसहिताः सप्त प्राणास्त्रीन्द्रियाणां, त एव सप्त चक्षुरिन्द्रियसहिता अष्टौ प्राणाश्चतुरिन्द्रियाणां, तथा असंज्ञिनां संज्ञिनां च नव दश प्राणा बोद्धव्याः, अत्राप्ययमर्थः-इन्द्रियपञ्चककायवाग्बलोच्छासनिःश्वासायुर्लक्षणा नव प्राणा असंज्ञिपञ्चेन्द्रियाणां, संज्ञिपञ्चेन्द्रियाणां तु पूर्वोक्ता दशापि प्राणा भवन्तीति १७०॥६६॥ सम्प्रति 'दस कप्पदुम'त्येकसप्तत्यधिकशततमं द्वारमाह
CHARACAKACES
Jain Education Interational
For Private & Personal Use Only
www.jainelibrary.org