________________
KISSAAN
| ऽप्यस्फुटतमं द्वीन्द्रियः ततोऽप्यत्यस्फुटतममेकेन्द्रियः तस्य प्रायो मनोद्रव्यासम्भवात् , केवलमव्यक्तमेव किञ्चिदतीवाल्पतरं मनो द्रष्टव्यं | यद्वशादाहारादिसंज्ञा अव्यक्तरूपाः प्रादुष्यन्तीति १ ॥ ९१९ ॥ साम्प्रतं हेतुवादोपदेशसंज्ञया संज्ञिनमसंज्ञिनं चाह-'जे उण' गाहा, 'पाएण' गाहा, ये पुनः सञ्चिन्त्य सञ्चिन्त्येष्टानिष्टेषु-छायातपाहारादिषु विषयवस्तुषु मध्ये स्वदेहपरिपालनाहेतोरिष्टेषु वर्तन्ते अनिष्टेभ्यस्तु तेभ्य एव निवर्तन्ते, प्रायेण च साम्प्रतकाल एव, न चापि-नैव दीर्घकाले-अतीतानागतलक्षणे, प्रायोग्रहणात् केचिदतीतानागतकालावलम्बिनोऽपि नातिदीर्घकालानुसारिणः ते द्वीन्द्रियादयो हेतुवादोपदेशसंज्ञया संझिनो विज्ञेयाः, अत्र च निश्चेष्टा:-धर्माद्यमितापेऽपि तन्निराकरणाय प्रवृत्तिनिवृत्तिविरहिताः पृथिव्यादय एवासंज्ञिनो भवन्ति, इदमुक्तं भवति-यो बुद्धिपूर्वकं वदेहपरिपालनार्थमिष्टेष्वाहारादिषु वस्तुषु प्रवर्तते अनिष्टेभ्यश्च निवर्तते स हेतूपदेशसंज्ञी, स च द्वीन्द्रियादिरपि वेदितव्यः, तथाहि-इष्टानिष्टविषयप्रवृत्तिनिवृत्तिसञ्चिन्तन न मनोव्यापारमन्तरेण सम्भवति, मनसा च पर्यालोचनं संज्ञा, सा च द्वीन्द्रियादेरपि विद्यते, तस्यापि प्रतिनियतेष्टानिष्टविषयप्रवृत्ति|| निवृत्तिदर्शनात् , ततो द्वीन्द्रियादिरपि हेतूपदेशसंज्ञया संज्ञी लभ्यते, नवरमस्य सञ्चिन्तनं प्रायो वर्तमानकालविषयं, न भूतभविष्यद्वि-|
षयमिति नाय दीर्घकालोपदेशेन संज्ञी, यस्य पुनर्नास्त्यभिसन्धारणपूर्विका प्रवृत्तिनिवृत्तिशक्तिः स प्राणी हेतुवादोपदेशेनाप्यसंज्ञी लभ्यते, | स च पृथिव्यादिरेकेन्द्रियो वेदितव्यः, तस्याभिसन्धिपूर्वकमिष्टानिष्टप्रवृत्तिनिवृत्त्यसम्भवात् , या अपि च आहारादिका दश संज्ञाः | पृथिव्यादीनामप्यत्र वक्ष्यन्ते प्रज्ञापनायामपि च प्रतिपादितास्ता अप्यत्यन्तमव्यक्तरूपा मोहोदयजन्यत्वादशोभनाश्चेति न तदपेक्षयाऽपि तेषां संज्ञित्वव्यपदेशः, न हि लोकेऽपि कार्षापणमात्रास्तित्वेन धनवानुच्यते न चाविशिष्टेन मूर्तिमात्रेण रूपवानिति, अन्यत्रापि हेतुवादोपदेशसंज्ञित्वमाश्रित्योक्तं-"कृमिकीटपतङ्गाद्याः 'समनस्का जङ्गमाश्चतुर्भेदाः । अमनस्काः पञ्चविधाः पृथिवीकायादयो जीवाः॥१॥"
UA****
Join Education International
For Private Personal use only