________________
2-%25A
5
%
त्वाद्, भृकुट्या विनिवारितः ॥ २७॥ विवाह्य वीरकेणासौ, गृहे नीता प्रतिष्ठति। पल्यके स्वामिपुत्रीति, भक्तिं चास्याः करोत्यसौ ४॥ २८ ॥ राज्ञाऽथ वीरकः पृष्टः, करोति वचनं तव । मम पुत्रीति सोऽप्याह, स्वामिन्या अस्मि किङ्करः ।। २९ ।। अवोचद्वीरकं विष्णु★ यदि कारयसे न हि । सर्व स्वकर्म तन्मूर्ति, पातयिष्याम्यहं तव ॥ ३० ॥ ज्ञात्वा विष्णोरमिप्रायं, वीरकोऽपि गृहं गतः । तां निष्ठुर
मिदं प्राहोत्तिष्ठ पायनिकां कुरु ॥३१॥सा रुष्टा कोलिकात्मानं, न जानासीत्यजल्पत । तेन रज्ज्वाऽऽहता कृष्णं, रुदती सुदती ययौ ॥३२॥ |पादौ प्रणम्य कृष्णस्य, सा जगाद सगद्गदम् । तेनाहमाहता तात !, कोलिकेन दुरात्मना ॥ ३३ ॥ अवादीत्केशवो वत्से !, तेन त्वं भणिता मया । स्वामिनी भव दासत्वं, त्वं पुनर्याचसे ननु ॥ ३४ ॥ साऽथ व्यजिज्ञपत्तात !, नास्य गेहे वसाम्यहम् । स्वामिन्येव भविष्यामि, सम्प्रति त्वत्प्रसादतः ॥३५।। वीरकं समनुज्ञाप्य, ततः श्रीनेमिसन्निधौ । तां प्रव्रज्यां प्रबन्धेन, पायामास केशवः ॥३६॥ विहृत्यान्यत्र संप्राप्ते, श्रीरैवतकमन्यदा । श्रीनेमौ सपरिवारो, वन्दनाय ययौ हरिः ॥ ३७॥ अष्टादश सहस्राणि, यतीन्नानागुणोत्तरान् । सानन्दं वन्दते विष्णुादशावर्तवन्दनैः ॥ ३८ ॥ परिश्रान्ता नृपास्तस्थुरिकस्तु तथैव हि । यतींस्तदनुवृत्त्यैव, वन्दते विष्णुना सह ॥ ३९ ॥ प्रस्खेदक्छिन्नगात्रश्च, श्रीनेमि पृष्टवान् हरिः। 'त्रिभिः षष्टिशतैर्नाथ !, नाहमेवं श्रमं गतः ॥ ४०॥ अवोचद्भगवाने, कृष्ण ! भक्त्याऽनया त्वया । सम्यक्त्वं क्षायिक प्राप्तं, तीर्थकृत्कर्म चार्जितम् ॥ ४१ ॥ सप्तमपृथ्वीयोग्यं यत्त्वयाऽऽयुःकर्म निर्मितम् ।। आनीतं तत्तृतीयायां, वन्दनं ददता त्वया ॥ ४२ ॥ तत्र कृष्णस्य भावतः कृतिकर्म, वीरकस्य तु तदनुवृत्त्या द्रव्यत इति । इदानीं सेवकोदाहरणं, तथाहि-एकस्य भूमिपालस्य, सेवको द्वौ बभूवतुः । आसन्नप्रामयोः सीमाविवादश्च तयोरभूत् ॥ १॥ १ नाथ ! नेस्थमहं श्रान्तः सवष्टित्रिशतैयुधैः । प्र०
%7-04-04-4.
भ्र.सा.६
Jain Educati
o
nal
For Private & Personel Use Only
CG
ww.jainelibrary.org