________________
प्रव० सा
रोद्धारे तत्त्वज्ञानवि०
९३ निग्रन्थपंचकं गा.७१९. ७३०
॥२०९॥
चउपन्ना। उक्कोसओ जहन्नेको व दुगं व तिगमहवा ॥ ७२७॥ सुहझाणजलविसुद्धो कम्ममलावेक्खया सिणाओत्ति । दविहो य सो सजोगी तहा अजोगी विणिहिट्टो॥ ७२८ ।। मूलत्तरगुणविसया पडिसेवा सेवए पुलाए य । उत्तरगुणेसु बउसो सेसा पडिसेवणारहिया ॥ ७२९॥ निग्गंथसिणायाणं पुलायसहियाण तिण्ह वोच्छेओ । समणा बउसकुसीला जा तित्थं ताव
होहिंति ॥७३०॥ 'पंचे'त्यादिगाथाद्वादशकं, ग्रन्थादान्तरान्मिध्यात्वादेर्बाह्याच्च धर्मोपकरणवर्जधनादेर्निर्गता निम्रन्थाः-साधवः, ते पञ्चविधा उक्ताः, यथापुलाको बकुशः कुशीलो निर्ग्रन्थः स्नातकश्चेति, एतेषां च पुलाकादीनां सर्वेषां सामान्यतश्चारित्रसद्भावेऽपि मोहनीयकर्मक्षयोपशमादिवैचित्र्या-1 द्भेदोऽवगन्तव्यः, एकैकोऽपि स पुलाकादिर्द्विविधो भवेत् , द्वैविध्यं च सूत्रकृदेवाने प्रकटयिष्यति ॥७१९॥ अथ सूत्रकार एव निर्ग्रन्थशब्द-1 व्युत्पत्तिमाह-'गंथो' गाहा, प्रध्यते-बध्यते कषायवशगेमात्मनेति ग्रन्थः यद्वा प्रश्नाति-बध्नात्यात्मानं कर्मणेति ग्रन्थः, स द्विभेदःआभ्यन्तरो बाह्यश्च, तत्राभ्यन्तरो मिथ्यात्वादिश्चतुर्दशविधः बाह्यश्च धनादिको दशविधो 'मतः' कथितः, तस्माञ्च द्विभेदादपि ग्रन्थाद् ये निर्गतास्ते निम्रन्था 'उक्ताः' भणिताः, 'तेषां' निर्ग्रन्थानां पञ्चभेदानां मध्ये पुलाकः प्रथमो भवेत् ।। ७२० ॥ अथ चतुर्दशविधाभ्यन्तरग्रन्थप्रतिपादनामाह्-'मिच्छत्तं' गाहा, मिथ्यात्वं-तत्त्वार्थाश्रद्धानं वेदत्रिक-पुंस्त्रीनपुंसकवेदलक्षणं हास्यादिषट्कं च-हास्यरत्यरति| भयशोकजुगुप्सालक्षणं ज्ञातव्यं, तत्र हास्य-विस्मयादिषु वक्रविकाशात्मकं रतिः-असंयमे प्रीतिः अरतिः-संयमेऽप्रीतिः, उक्तं च"अरई य संजमम्मी होइ रईऽसंजमे यावि"त्ति भयं-इहलोकादिसप्तधा, शोकः-इष्टवियोगान्मानसं दुःखं जुगुप्सा-अस्नानादिमलिन
CHARACCASEASEANSAR
॥ २०
Jain Education
For Private & Personel Use Only
jainelibrary.org