________________
RCESCORESCCSCRICK
अग्रं-परिमाणं तस्य अयन-गमनं परिच्छेद इत्यर्थः तस्मै हितमप्रायणीयमिति व्युत्पत्तेः, तस्य पदपरिमाणं षण्णवतिर्लक्षाणि, तथा यत्र DIजीवानां सकर्मेतराणामजीवानां च वीर्य प्रोच्यते-प्ररूप्यते तद्वीर्यप्रवादं तृतीयं पूर्व, तस्य पदपरिमाणं सप्ततिर्लक्षाणि, तथा यल्लोकेऽस्ति
वस्तु धर्मास्तिकायादि यच्च नास्ति खरशृङ्गादि अथवा स्याद्वादाभिप्रायेण सर्व वस्तु स्वरूपेणास्ति पररूपेण नास्तीत्येवं यत्र प्रोच्यते तदस्तिनास्तिप्रवादं चतुर्थ, तदपि पदपरिमाणतः षष्टिलक्षाणि, तथा यत्र ज्ञानं मत्यादिकं पञ्चविधं स्वरूपभेदप्रभेदादिभिः प्रोद्यते तत् ज्ञानप्रबाद नाम पञ्चमं पूर्व, एतच्च पदपरिमाणमानित्यैकेन पदेन न्यूना एका कोटिः, तथा सत्यं-संयमः सत्यवचनं वा तद्यत्र सभेदं सप्रतिपक्षं च प्रोद्यते तत् सत्यप्रवादं षष्ठं पूर्व, तस्य पदपरिमाणं पभिः पदैरधिका एका कोटिः, तथा यत्रात्मा-जीवोऽनेकनयैः प्रोद्यते तदात्मप्रवाद सप्तमं पूर्वं, तस्य पदपरिमाणं षट्त्रिंशत्कोटयः, तथा समयः-सिद्धान्तार्थः स चात्र कर्मरूपो गृह्यते ततः कर्मस्वरूपं यत्र प्ररूप्यते तत् | |समयप्रवादं वरं-प्रधानमष्टमं पूर्व, अन्यत्र तु कर्मप्रवामित्युच्यते, तत्रापि कर्म-ज्ञानावरणादिकमष्टविधं प्रकृतिस्थित्यनुभागप्रदेशादिभिर्भदै
रन्यैश्चोत्तरोत्तरभेदैर्यत्र प्रोद्यते तत्कर्मप्रवादं पूर्व, तस्य पदपरिमाणमेका कोटिरशीतिश्च लक्षाणि, तथा यत्र सर्वप्रत्याख्यानस्वरूपं सप्रभेद * प्रोद्यते तत् प्रत्याख्यानप्रवादं नवम, तस्य पदानां परिमाणं चतुरशीतिर्लक्षाः, तथा यत्रानेकविधा विद्यातिशयाः साधनानुकूल्येन सिद्धि
प्रकर्षेण वर्ण्यते तद्विद्यानुप्रवादं दशम, तस्य पदपरिमाणमेकादश कोटयः पञ्चदश च सहस्राणि, तथाऽवन्ध्यनामधेयमेकादशं पूर्व, वन्ध्यं | नाम निष्फलं न वन्ध्यं अवन्ध्यं सफलमित्यर्थः, तत्र हि सर्वे ज्ञानतपःसंयोगाः शुभफलेन सफला वर्ण्यन्ते अप्रशस्ताश्च प्रमादादिकाः सर्वे अशुभफला वर्ण्यन्ते अतोऽवन्ध्यं, अन्ये तु कल्याणमित्याहुः, अर्थस्तु तत्रापि स एव, तस्मिंश्च पदपरिमाणं षड्विंशतिकोटयः, तथा यत्र प्राणा-जीवाः पञ्चेन्द्रियत्रिविधबलोच्छासनिःश्वासरूपा वा आयुश्चानेकधा वर्ण्यते तत् प्राणायुादशं पूर्व, तत्र पदपरिमाणमेका |
Jain Education
For Private & Personal Use Only
M
ainelibrary.org