________________
S
UPLOADSANSLOCALSAROKAR
दीरणाभ्यां वेदयमानस्तावद्गतो यावत्समयाधिकावलिकामानं शेषः, तत उदीरणा स्थिता, तत उदयेनैव केवलेन तां वेदयते यावच्चरमसमयः, तस्मिंश्च चरमसमये ज्ञानावरणपञ्चकदर्शनावरणचतुष्कयशःकीर्युच्चैोत्रान्तरायपञ्चकरूपाणां षोडशकर्मणां बन्धव्यवच्छेदः मोहनीयस्योदयसत्ताव्यवच्छेदश्च भवति, ततोऽसौ क्षीणकषायो जायते, तस्य च शेषकर्मणां स्थितिघातादयः पूर्ववत्प्रवर्तन्ते यावत्क्षीण. कषायाद्धायाः सङ्ख्येया भागा गता भवन्ति, एकः सङ्खयेयो भागोऽवतिष्ठते, तस्मिंश्च ज्ञानावरणपञ्चकान्तरायपञ्चकदर्शनावरणचतुष्टयनिद्राद्विकरूपाणां षोडशकर्मणां स्थितिसत्कर्म सर्वापवर्तनयाऽपवर्त्य क्षीणकषायाद्धासमं करोति, केवलं निद्राद्विकस्य स्वस्वरूपापेक्षया समयन्यून सामान्यतः कर्मरूपतया तु तुल्यं, सा च क्षीणकषायाद्धा अद्याप्यन्तर्मुहूर्त्तमाना, ततः प्रभृति च तेषां स्थितिघातादयः स्थिताः, शेषाणां तु भवन्त्येष, तानि च षोडश कर्माणि निद्राद्विकहीनानि उदयोदीरणाभ्यां वेदयमानस्ताव गतो यावत्समयाधिकावलिकामानं शेषः, तत उदीरणा निवृत्ता, तत आवलिकामानं यावदुदयेनैव केवलेन तानि वेदयते यावत्क्षीणकषायाद्धाया द्विचरमसमयः, तस्मिंश्च द्विचरमसमये निद्राद्विकं स्वरूपसत्तापेक्षया क्षीणं, चतुर्दशानां च प्रकृतीनां चरमसमये क्षयः, ततोऽनन्तरसमये केवली जायत इति ॥६९४॥ अथैना गाथा प्रतिपदं स्वयमेव सूत्रकृव्याख्याति-कोहो' इत्यादि गाथाद्वयं, क्रोधो मानो माया लोभ इत्येताननन्तानुबन्धिनश्चतुरः कषायान युगपत्क्षपयित्वा संढो'त्ति नपुंसकः श्रेणिप्रतिपत्ता मिथ्यात्वं मिश्र सम्यक्त्वं च क्रमेणान्तर्मुहूर्तेन क्षपयति, सर्वत्रापि च क्षपणाकालोऽन्तर्मुहूर्तमानः, श्रेणिपरिसमाप्तिकालोऽप्यन्तर्मुहूर्तमात्र एव, अन्तर्मुहूर्तानामसङ्ख्येयभेदत्वात् ॥ ६९५॥ ततोऽप्रत्याख्यानप्रत्याख्यानावरणान् अष्टौ कषायान 'सममपि' युगपदेव क्षपयति, तदनु नपुंसकस्त्रीवेदद्विकं युगपत्क्षपयति, स्त्रीवेदनपुंसकवेदक्षयसमकालमेव च पुंवेदस्य बन्धो व्यवच्छिद्यते, |तच्च क्षपयित्वाऽनन्तरं क्षपयति समं-युगपदेव इमा वक्ष्यमाणाः सप्त प्रकृतीः॥ ६९६ ॥ ता एवाह-'हासे'त्यादि, हास्यरत्यरतिपुंवेदशोक
O-ASCARSAGNOSCORECIOUS
Jain Education
Nepal
For Private & Personel Use Only
jainelibrary.org
का