SearchBrowseAboutContactDonate
Page Preview
Page 380
Loading...
Download File
Download File
Page Text
________________ प्रव० सा रोद्धारे तत्त्वज्ञानवि० ६२ ॥१९३॥ CROSORXSASTER बीपि स्त्री सैव तद्गतरागहेतुगतिविभ्रमेङ्गिताकारविलोकनेऽपि त्वरुधिरमांसमेदस्नायवस्थिसिराबणैः सुदुर्गन्धि । कुचनयनजघनवदनो ८६ परीरुमूच्छितो मन्यते रूपम् ॥१॥ तथा-निष्ठीवनं जुगुप्सत्यधरस्थं पिबति मोहितः प्रसभम् । कुचजघनपरिश्रावं नेच्छति तन्मोहितो भजते || पहाः २२ २॥' इत्यादितत्स्वरूपपरिभावनातः परिषद्ममाणत्वात्परीषहः स्त्रीपरीषहः, अयमर्थः-न स्त्रीणामङ्गप्रत्यङ्गस्थानहसितललितविभ्रमाद्या-18|गा.६८५. |श्चित्ताक्षेपकारिणीश्चेष्टाश्चिन्तयेत्, न जातुचिच्चक्षुरपि तत्र निक्षिपेत् मोक्षमार्गार्गलासु ललनासु कामबुद्धयेति ८ तथा चरणं चर्या द्रव्यतो प्रामानुग्रामविहरणात्मिका भावतस्त्वेकस्थानमधितिष्ठतोऽप्यप्रतिबद्धता सैव परीषहश्चर्यापरीषहः, वर्जितालस्यो ग्रामनगरकुलादिष्वनियतवसतिनिर्ममत्वात्प्रतिमासं चर्यामाचरेदिति ९ तथा निषेधनं निषेधः-पापकर्मणां गमनादिक्रियायाश्च प्रतिषेधः स प्रयोजनं यस्याः सा नैषे|धिकी-शून्यागारस्मशानादिका स्वाध्यायादिभूमिः सैव परीषहो नैषेधिकीपरीषहः, अन्यत्र तु निषद्येत्येवं पठ्यते, तत्र निषीदन्त्यस्यामिति निषद्या-स्थानं स्त्रीपशुपण्डकविवर्जितं तत्र इष्टानिष्टोपसर्गान् अनुद्विनः सम्यक्सहेत १० तथा शेरतेऽस्यामिति शय्या-उपाश्रयः संस्तारको वा सैव परीषहः शय्यापरीषहः समविषमभूमिकं पांशूत्करप्रचुरमतिशिशिरं बहुधर्मकं वा उपाश्रयं वा मृदुकठिनादिभेदेनोच्चावचं संस्तारकं वा प्राप्य न कदाचिदप्युद्विजेत् ११ तथा आक्रोशनमाक्रोश:-अनिष्टवचनं स एव परीषहः आक्रोशपरीषहः तद्यदि सत्यं तर्हि कः कोपः? शिक्षयति हि मामयमुपकारी, न पुनरेवं करिष्यामीति, अनृतं चेत् सुतरां कोपो न कर्तव्यः, उक्तं च-"आक्रुष्टेन मतिमता तत्त्वार्थविचारणे मतिः कार्या । यदि सत्यं कः कोपः ? स्यादनृतं किमिह कोपेन ? ॥१॥” इत्यादि परिभाव्य न कोपं कुर्यात् १२५ तथा हननं वधः-ताडनं स एव परीषहो वधपरीषहः, परैर्हि दुरात्मकैः पाणिपाणिलत्ताकशादिमिः प्रद्वेषादितस्ताडनं क्रियमाणं सम्य ॥१९३॥ क्सहेत, न पुनः कोपकलुषितान्तःकरणो भवेत् , चिन्तयेच्च-अन्यदेवेदं शरीरमात्मनः पुद्गलसंहतिरूपं, आत्मा पुनर्न शक्यत एव ध्वंस M Jain d For Private Personal Use Only ainelibrary.org an
SR No.600107
Book TitlePravachan Saroddhar Purvarddh
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1922
Total Pages444
LanguageSanskrit
ClassificationManuscript
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy