________________
कानुकूलसुखस्पर्शाद्युपेतं समाधिसंवर्धनाय संस्तारकमास्तृणन्ति, तथा चत्वारः साधवो विशिष्टदेशनालब्धिसम्पन्नाः सततं कथयन्ति 'से
तस्य विदितवस्तुतत्त्वस्यापि संवेगसमुल्लासकं धर्म, तथा तस्यानश निनः प्रभावनामतिशायिनी श्रावकलोकैः क्रियमाणां दृष्ट्वा केचिद् दुरात्मानस्तामसहमानाः सर्वज्ञमतनिराकरणाय वाददानायोपतिष्ठन्ते ततस्तेषां तिरस्करणाय वादिनो-वावदूकाश्चत्वारः प्रमाणप्रवीणाः प्रगु-IM णीभूतास्तिष्ठन्ति, तथाऽप्रद्वारमूले प्रत्यनीकादिप्रवेशरक्षार्थ मुनिचतुष्क-चत्वारः साधवः सामोपेतास्तिष्ठन्ति, तथा प्रत्याख्यातेऽप्याहारे परीषहपीडितो यद्यसौ कथमप्याहारमभिलषति तदा मा कथञ्चिदसौ प्रत्यनीकदेवताधिष्ठितो याचते इति परीक्षार्थ प्रथमतस्तावत्पृच्छयते यथा-कस्त्वं गीतार्थो वा अगीतार्थो वा प्रतिपन्नाशन एवमेव वा? इदानी दिनं वर्तते रात्रिवेत्यादि, एवं च पृष्टे यद्यसौ प्रस्तुतं वक्ति | DIL तदा ज्ञायते न देवताधिष्ठितः किन्तु परीषहपीडित इति ज्ञात्वा समाधिसम्पादनाय किञ्चिदाहारो दीयते, ततस्तद्बुलेन परीषहान् परिभूय प्रस्तुतपारगामी भवति, अथ वेदनार्दित आहारं न करोति तदाऽऽर्तध्यानोपगतस्तिर्यक्षु भवनपतिव्यन्तरेषु वा समुत्पद्येत, प्रत्यनीकेषु च भवनपतिव्यन्तरेषूत्पन्नः कोपवशात्कदाचित्पाश्चात्ययतीनामुपद्रवमपि कुर्यादिति ततश्चत्वारो मुनयस्तस्यानशनिन उचितं-योग्य आहारं 'निभालयन्ति' गवेषयन्ति, तथा चत्वारो देहदाहाद्युपशमसमर्थ पानीयमन्वेषयन्ति, तथा चत्वार उच्चार-पुरीषं परिष्ठापयन्ति-परित्यजन्ति, तथा चत्वारः प्रश्रवणं-मूत्रं परिष्ठापयन्ति, तथा चत्वारो बहिर्भागे जनानां पुरतश्चेतश्चमत्कारकारिणं मनोहारिणं धर्म कथयन्ति, तथा चत्वारश्चतसृष्वपि दिक्षु क्षुद्रोपद्रवरक्षकाः सहस्रयोधिनो-महामल्ला मुनयस्तिष्ठन्ति, क्षुद्रोपद्रवनिवारणार्थमेकैकश्चतसृष्वपि दिक्षु तिष्ठ-10 तीत्यर्थः ॥ ६३१-६३२-६३३-६३४ ॥ अथैते परिपूर्णा यदा न प्राप्यन्ते तदा किमित्याह-ते-निर्यामकाः सर्वेषामष्टचत्वारिंशत्सङ्ख्यानामभावे एकैकहान्या तावत्कार्या यावजघन्यतोऽवश्यं द्वौ निर्यामको, तत्रैकस्तत्पार्श्वस्थितः-तस्य-प्रतिपन्नानशनस्य सर्वदैव
ॐॐॐ***
१२-६३३-६३४ ॥ अर्थते पारणा महामला सुनयस्तिष्ठन्ति, क्षुद्रोपद्रवनिवारणा मनोहारिणं धर्म कथयन्ति, 2
Jain Educa
t
ion
For Private & Personel Use Only
vow.jainelibrary.org