________________
प्रव० सा
रोद्धारे
तत्त्वज्ञानवि०
॥ १५६ ॥
Jain Education
॥ १ ॥ अवपातं विषमं स्थाणुं कर्दमं परिवर्जयेत् । संक्रमेण न गच्छेत् विद्यमाने सरले पथि ॥ २ ॥ ] एवंविधोपयोगेन गच्छतो यतेर्यदि कथमपि प्राणिवधो भवति तथाऽपि तस्य पापं न भवति, यदाहुः " उच्चालियंमि पाए इरियासमियरस संकमट्ठाए । वावज्जेज्ज कुलिंगी मरिज्ज तं जोगमासज्ज ॥ १ ॥ न हु तस्स तन्निमित्तो बंधो सुहुमोऽवि देसिओ समए । अणवज्जो उ पओगेण सव्वभावेण सो जम्हा ॥ २ ॥" [ उच्चालिते पादे ईर्यासमितेन संक्रमार्थाय । व्यापद्येत द्वीन्द्रियादित्रियेत तद्योगमासाद्य ॥ १ ॥ नैव तस्य तन्निमित्तो बन्धः सूक्ष्मोऽपि दर्शितः समये । अनवद्यस्तु प्रयोगेण सर्वभावेन स यस्मात् ॥ २ ॥ ] तथा - "जियदु व मरदु व जीवो अजदाचारस्स निच्छओ हिंसा । पयदस्स नत्थि बंधो हिंसामित्तेण समिदस्स ॥ १ ॥ " [ जीवतु वा प्राणी म्रियतां वा अयताचारस्य निश्चयतो हिंसा । प्रयतस्य नास्ति बन्धः हिंसामात्रेण समितस्य ।। १ ।। ] तथा वाक्यशुद्ध्यध्ययनप्रतिपादितां सावद्यां भाषां धूर्तकामुकक्रव्यादचौर चार्वाकादिभाषितानि च निर्दम्भतया वर्जयतः सर्वजनीनं स्वल्पमप्यतिबहुप्रयोजन साधकमसन्दिग्धं च यद्भाषणं सा भाषासमितिः, तथा गवेषणग्रहणग्रासैषणादोषैरदूषितस्यान्नपानादे रजोहरणमुखवत्रिकाद्यौधिकोपधेः शय्यापीठफलकचर्मदण्डाद्यौपहिकोपधेश्व विशुद्धस्य यद् ग्रहणं सा एषणासमितिः, तथा आसनसंस्तारकपीठफलकवस्त्रपात्रदण्डादिकं चक्षुषा निरीक्ष्य प्रतिलिख्य च सम्यगुपयोगपूर्वं रजोहरणादिना यद् गृह्णीयाद् यच्च निरीक्षितप्रतिलेखितभूमौ निक्षिपेत् सा आदाननिक्षेपसमितिः, अनुपयुक्तस्य तु प्रतिलेखनापूर्वमप्यादाने निक्षेपे च न शुद्धा समितिः, यदवाचि – “पडिलेहणं कुणतो मिहो कहूं कुणइ जणवयक वा । देइ व पच्चक्खाणं वाएइ सयं पडिच्छइ वा ॥ १ ॥ पुढवी आउक्काए वाऊ तेऊ वणस्सइतसाणं । पडिलेहणापमत्तो छहपि विराहओ भणिओ ॥ २ ॥” [ प्रतिलेखनां कुर्वाणो मिथः कथां करोति जनपदकथां वा । ददाति वा प्रत्याख्यानं वाचयति स्वयं प्रतीच्छति वा ॥ १ ॥ पृथ्व्यप्कायवायु
For Private & Personal Use Only
-
६८ करण े सप्ततौ समितयः
गा. ५७१
।। १५६ ।।
jainelibrary.org