________________
प्रव० सा
रोद्धारे
तत्त्वज्ञा
नवि०
॥ १४५ ॥
Jain Education I
मनेनातनीं स्फेटयित्वा धात्री कृता तथाऽन्यया कदाचिदभ्यर्थितो मामपि धात्रीत्वात् स्फेटयिष्यति ततस्तथा करोमि यथाऽयमेव न भवतीति विचिन्त्य विषादिप्रयोगेण मारयेदिति, एवं मज्जनधात्रीत्वकारणे स्वयं वा करणे मण्डनधालीत्वकारणे स्वयंकरणे वा क्रीडनकधात्रीत्वकारणे स्वयंकरणे वा अङ्कधात्रीत्वकारणे स्वयंकरणे वा दोषाः परिभाव्य भणनीया इति १ ॥ ' दूई 'त्ति दूती - परस्परसंदिष्टार्थकथिका, ततो दूतीत्वकरणेन - परस्परसन्दिष्टार्थकथनेन यः पिण्ड उपार्ज्यते यतिना स दूतीपिण्डः, सा च दूती द्विधा - खमामे परमामे च तत्र यस्मिन् प्रामे साधुर्वसति तस्मिन्नेव प्रामे यदि सन्देशं कथयति तदा स्वग्रामदूती, यदा तु परप्रामे गत्वा सन्देशं कथयति तदा परग्रामदूती, एकैकाऽपि च द्विधा - प्रकटा प्रच्छन्ना च, प्रच्छन्ना पुनरपि द्विधा - एका लोकोत्तरविषया, द्वितीयसङ्घाटकसाधोरपि गुप्तेत्यर्थः, द्वितीया पुनर्लोकलोकोत्तरविषया, पार्श्ववर्तिनो जनस्य सङ्घाटकद्वितीयसाधोरपि च गुप्तेति भावः, तत्र कश्चित्साधु|र्भिक्षाकृते व्रजन् विशेषतस्तल्लाभार्थं तस्यैव प्रामस्य सम्बन्धिनः पाटकान्तरे प्रामान्तरे वा जनन्यादेः सत्कं पुत्रिकादेरप्रतो गत्वा सन्दे| शकं कथयति यथा सा तव माता स तव पिता वा स भ्रात्रादिर्वा त्वयाऽद्यावागन्तव्यमित्यादि त्वत्सम्मुखं वदतीत्येवं स्वपक्षपरपक्षयोः | शृण्वतोर्निःशङ्कं कथनात् प्रकटं स्वग्रामपरप्रामविषयं दूतीत्वं तथा कश्चिद्यतिः कयाचिद् दुहित्रा मात्रादिकं प्रति स्वप्रामे परग्रामे वा सन्देशकथनायाभ्यर्थितः, ततस्तत्सन्देशकमवधार्य तज्जनन्यादिपार्श्वे गतः सन्नेवं चिन्तयति दूतीत्वं खलु गर्हितं सावद्यत्वात्, ततो द्वितीयसङ्घाटकसाधुर्मा मां दूतीदोषदुष्टं ज्ञासीदित्येवमर्थ भयन्तरेणेदं भणति - यथा श्राविके ! अतिमुग्धा सा तव दुहिता यैवं सावद्ययोगरहितानस्मान् प्रति वदति - यथेदं प्रयोजनं मदीयागमनादिकं मम मातुस्त्वया कथनीयमिति, साऽपि दक्षतयाऽभिप्रायं ज्ञात्वा द्वितीयसङ्घाटक साधुचित्तरक्षणार्थं प्रतिभणति - यथा वारयिष्येऽहं तां तवाभिमुखं पुनरेवं वदन्तीमित्येवं सङ्घाटकसाधोरिदं गोपायितुमिष्टं
For Private & Personal Use Only
करणस
ततौ
१६ उत्पा दनादोषाः
गा. ५६७
५६८
॥ १४५ ॥
ainelibrary.org