SearchBrowseAboutContactDonate
Page Preview
Page 265
Loading...
Download File
Download File
Page Text
________________ साधवः स्थविराः, समनोज्ञा-एकसामाचारीसमाचरणपराः सङ्क:-श्रमणश्रमणीश्रमणोपासकश्रमणोपासिकासमुदायः बहूनां गच्छानामे| कजातीयानां समूहः कुलं-चान्द्रादि गच्छस्त्वेकाचार्यप्रणेयः साधुसमूहः कुलसमुदायो गणः-कोटिकादिः एषामेवाचार्यादीनामन्नपानवसपात्रप्रतिश्रयपीठफलकसंस्तारकादिमिर्धर्मसाधनैरुपमहः शुश्रूषाभेषजक्रियाकान्ताररोगोपसर्गेषु परिपालनमेवमादि वैयावृत्त्यं ॥ अथ ब्रह्मगुतीराह-वसही'त्यादि, ब्रह्मचारिणा स्त्रीपशुपण्डकविवर्जिता वसतिरासेवनीया, तत्र स्त्रियो देवमानुषभेदात् द्विविधाः एताश्च सचित्ताः अचित्तास्तु पुस्तलेप्यचित्रकर्मादिनिर्मिताः, पशवः-तिर्यग्योनिजाः, तत्र गोमहिषीवडवावालेयादयः सम्भाव्यमानमैथुनाः पण्डका:-तृतीय|वेदोदयवर्तिनो महामोहकर्माणः स्त्रीपुंसेवनाभिरताः, तत्संसक्तौ हि तत्कृतविकारदर्शनान्मनोविकारसद्भावेन ब्रह्मचर्यबाधासम्भवात् १ तथा स्त्रीणां केवलानामेकाकिना कथा-धर्मदेशनादिलक्षणवाक्यप्रबन्धरूपा न कथनीया, यदिवा स्त्रीणां सम्बन्धिनी कथा, यथा-'कर्णाटी सुरतोपचारचतुरा लाटी विदग्धप्रिया' इत्यादिरूपा न कर्तव्या, रागानुबन्धिनी हि देशजातिकुलनेपथ्यभाषागतिविभ्रमगीतहास्यलीलाकटाक्षप्रणयकलहशृङ्गाररसानुविद्धा कामिनीनां कथा अवश्यमिह मुनीनामपि मनो विक्रियां नयतीति २, तथा निषद्या-आसनं, कोऽर्थः ? -स्त्रीमिः सहकासने नोपविशेत् , उत्थिताखपि तासु मुहूर्त तत्र नोपविशेत् , तदुपभुक्तासनस्य चित्तविकारकारणत्वात् , यदाह-"इत्थीए मलिय सयणासणमि तप्फासदोसओ जइणो। दूसेइ मणं मयणो कुटुं जह फासदोसेणं ॥१॥" [स्त्रिया परिषेविते शयनासने तत्स्पर्शदोषतो यतेर्मनो मदनो दूषयति यथा कुष्ठं स्पर्शदोषेण ॥ १॥] ३ तथा अविवेकिजनापेक्षया स्पृहणीयानि स्त्रीणामिन्द्रियाणि-नयननासिकामुखकर्णदेहादीनि उपलक्षणत्वादङ्गानि च-स्तनजघनादीनि अपूर्व विस्मयरसनिर्भरतया विस्फारितलोचनो न विलोकयेत् , न च विलोकनानन्तरमहो सलवणत्वं लोचनयोः सरलत्वं नाशावंशस्य स्पृहणीयत्वं पयोधरयोरित्यादि तदेकाप्रचित्तश्चिन्तयेत् , तवलोकनतञ्चिन्तनयोर्मो MATALA-RECRUSSOCTOCOCAL Jain Educat on For Private & Personel Use Only w .jainelibrary.org
SR No.600107
Book TitlePravachan Saroddhar Purvarddh
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1922
Total Pages444
LanguageSanskrit
ClassificationManuscript
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy