________________
-ROCEROSAROSCLACKMARKAR
कर्मक्षयोपशमेनाविर्भूता प्रतिभा-परतीथिकादीनामुत्तरप्रदानशक्तिर्यस्य स आसन्नलब्धप्रतिभः १८ नानाविधानां देशानां भाषां जानातीति नानाविधदेशभाषाज्ञः, स हि नानादेशीयान् शिष्यान सुखेन शास्त्राणि ग्राह्यति, तत्तद्देशजांश्च जनान् तत्तद्भाषया धर्ममार्गेऽवतारयति १९ पञ्चविध आचारो-ज्ञानाचारादिरूपस्तस्मिन् युक्तः-उद्युक्तः स्वयमाचारेष्वनवस्थितस्यान्यानाचारेषु प्रवर्तयितुमशक्यत्वात् २४ सूत्रार्थग्रहणेन चतुर्भङ्गी सूचिता, एकस्य सूत्रं नार्थः द्वितीयस्यार्थो न सूत्रं तृतीयस्य सूत्रमप्यर्थोऽपि चतुर्थस्य न सूत्रं नाप्यर्थः, तत्र तृतीयभङ्गप्रणार्थं तदुभयग्रहणं, ततः सूत्रार्थतदुभयविधीन जानातीति सूत्रार्थतदुभयविधिज्ञः २५ आहरणं-दृष्टान्तः हेतुविविधः-कारको ज्ञापकश्च, तत्र कारको यथा घटस्य कर्ता कुम्भकारः, ज्ञापको यथा तमसि घटादीनामभिव्यजकः प्रदीपः, उपनयःउपसंहारो दृष्टान्तदृष्टस्यार्थस्य प्रकृते योजनमिति भावः 'कारण'त्ति पाठे तु कारणं-निमित्तं नया-नैगमादयः एतेषु निपुणः आहरणहेतूपनयनयनिपुणः, स हि श्रोतारमपेक्ष्य तत्प्रतिपत्त्यनुरोधतः कचिद् दृष्टान्तोपन्यासं २६ कचिद्धेतूपन्यासं करोति २७ उपसंहारनि-10 पुणतया सम्यगधिकृतमर्थमुपसंहरति २८ नय निपुणतया स सम्यगधिकृतनयवक्तव्यताऽवसरे सम्यक् सप्रपञ्चवैविक्त्येन नयानभिधत्ते २९ पाहणाकुशल:-प्रतिपादनशक्तियुक्तः ३० खसमयं ३१ परसमयं ३२ च वेत्तीति स्वसमयपरसमयवित् , स हि परेणाक्षिप्तः सुखेन स्वपक्षं परपक्षं च निर्वाहयति, गम्भीरः-अतुच्छस्वभावः ३३ दीप्तिमान-परवादिनामनुद्धर्षणीयः ३४ शिवः-अकोपनो यदिवा यत्र तत्र वा विहरन कल्याणकरः ३५ सोमः-शान्तदृष्टिः ३६ इति षट्त्रिंशद्गुणोपेतो गुरुर्विज्ञेयः, उपलक्षणत्वाचामीषां गुणानामपरैरपि गुणैरौदार्यस्थैर्यादिभिः शशधरकरनिकरकमनीयैरलङ्कृतः प्रवचनोपदेशको गुरुर्भवति, तथा चाह-"गुणसयकलिओ जुत्तो पवयणसारं परिकहेउं"ति, यद्वा गुणा-मूलगुणा उत्तरगुणाश्च तेषां शतानि तैः कलितो गुणशतकलितः युक्तः-समीचीनः प्रवचनस्य-द्वादशांगस्य सारं
NAYASASRANA
Jain Educat
i onal
For Private & Personal Use Only
www.jainelibrary.org