SearchBrowseAboutContactDonate
Page Preview
Page 243
Loading...
Download File
Download File
Page Text
________________ पणपच्छायणा मसिणा ॥ ५३८ ॥ खंधगरणी उ चउहत्थवित्थडा वायविहुयरक्खट्ठा । खुजक- रणी उ कीरइ रूववईणं कुडहहेऊ ॥ ५३९॥ । 'उ'त्यादिगाथैकादशकं, पूर्वोक्तानि पत्तं पत्ताबंधों' इत्यादीनि उपकरणादीनि चतुर्दश अचोलपट्टानि-चोलपट्टकरहितानि कमढगयुतानि |आर्यिकाणामपि भणितानि, पात्रादीनां च प्रमाणं गणनया स्वरूपेण च स्थविराणामिव द्रष्टव्यं, कमढकं च-लेपिततुम्बकभाजनरूपं कांस्यमयबृहत्तरकरोटिकाकारमेकैकं संयतीनां निजोदरप्रमाणेन विज्ञेयं, संयतीनां च मण्डलीमध्ये पतद्ग्रहको न भ्रमति एकस्याः संयत्या अपरस्याः | कार्ये न समायाति तुच्छस्वभावात् किन्तु कमढक एवार्यिका भोजनक्रियां कुर्वन्तीत्यतः कमढकग्रहणं, 'अहियाणिवि होंति ताणेवंति अधिकान्यपि-पूर्वोक्तचतुर्दशोपकरणव्यतिरिक्तान्यप्युपकरणान्यार्यिकाणां भवन्ति, तानि चैवं ॥ ५२९॥ यथा-अवग्रहानन्तकं १ पट्टकः २ अरुकं ३ चलनिका ४ च बोद्धव्या, अभ्यन्तरनिवसनी ५ बहिर्निवसनी ६ च तथा कञ्चुकश्चैव ७ उपकक्षिका ८ वैकक्षिका ९ सङ्घाटी |१० चैव स्कन्धकरणी ११ च एते आर्यिकाणां सम्बन्धिनि ओघोपधौ पञ्चविंशतिर्भेदाः ।।५३०-३१॥ एतान् स्वयमेव व्याचष्टे-'अथे'त्यानन्तर्ये, अवग्रह इति योनिद्वारस्य सामयिकी संज्ञा तस्यानन्तकं-वस्त्रं अवग्रहानन्तकं, तच्च नौसंस्थानं-बेडिकाकारं मध्यभागे विशालं पर्यतभागयोस्तु तनुकमित्यर्थः, गुह्यदेशरक्षार्थ-ब्रह्मचर्यसंरक्षणार्थ गृह्यते, तत्पुनर्गणनाप्रमाणेनैकं भवति, तथा आर्तवबीजपातसंरक्षणार्थ घन-घनवस्त्रेण क्रियते, पुरुषसमानकर्कशस्पर्शपरिहरणार्थ च ममृणं-मसृणवस्त्रेण क्रियते, मसृणे हि वस्ने स्त्रीयोनिस्पर्शसदृशः स्पर्शो भवति, सजातीयश्च सजातीये न प्रभवतीति मसृणग्रहणं, तथा 'देहमाश्रित्य' देहानुमानेन प्रमाणं तस्य करणीयं, देहो हि कस्याश्चित्तनुः कस्याश्चित्स्थूलः ततस्तदनुसारेण विधेयमित्यर्थः ॥ ५३२ ॥ पट्टोऽपि गणनाप्रमाणेन भवत्येकः पर्यन्तभागवर्तिबीटकबन्धः पृथुत्वेन चतु Jain Education For Private & Personal Use Only Mainelibrary.org
SR No.600107
Book TitlePravachan Saroddhar Purvarddh
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1922
Total Pages444
LanguageSanskrit
ClassificationManuscript
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy