________________
RAGRAP
* तिरिक्तरधिकारः, तत्र स्वयम्बुद्धप्रत्येकबुद्धानां बोध्युपधिश्रुतलिङ्गकृतो विशेषः ॥ ५२० ॥ तत्र स्वयम्बुद्धानां बोध्यादीन्याह-'तित्थे'त्यादि
गाथाचतुष्टयं, तीर्थकरवर्जितानां स्वयम्बुद्धानां बोधिः-धर्मप्राप्तिरुपधिः-उपकरणानि श्रुतं-ज्ञानं लिङ्ग चेति ज्ञेयानि प्रत्येकबुद्धेभ्यो भेदप्रतिपादकानि चत्वारि स्थानानि, तान्येव क्रमेणाह-तेषां बोधिर्बाह्यप्रत्ययमन्तरेणैव निजजातिस्मरणादिना भवति, तथा मुखपोत्तिका रजोहरणं| कल्पत्रिकं सप्तविधश्च पात्रनियोग इति द्वादशधा उपधिर्भवति स्वयम्बुद्धसाधूनां, तथा एषा-स्वयम्बुद्धसाधूनां पूर्वजन्मन्यधीतं-पठितं श्रुतं
भवति अथवा नैव भवति पूर्वाधीतं श्रुतं किन्तु नवतरपठितमेव, ततो यदि पूर्वाधीतं श्रुतं तेषामुपतिष्ठते तदा 'से'त्ति तस्य स्खयम्बुद्धस्य तादेवता 'लिङ्ग' रजोहरणादिकमर्पयति, उपलक्षणमेतत् , गुरुसन्निधौ वा गत्वा लिङ्गं प्रतिपद्यते, अथ न पूर्वाधीतं श्रुतमुपनिष्ठते तदा
गुरव एव लिङ्गमर्पयन्ति, अयं च यद्येकाक्यपि विहरणक्षमो-विहारं कर्तुं समर्थस्तादृशी वा तस्य इच्छा-एकाकिविहारकरणेऽभिलाष
स्ततः करोति तं-एकाकिविहारं, 'अन्यथा' एकाकिविहाराक्षमतायामिच्छाया अभावे च गच्छवासमनुसरति-गच्छ एवास्ते 'नियमेन' दि निश्चयेन, इदं च पूर्वाधीतश्रुतसद्भाव एव द्रष्टव्यं, पूर्वाधीतश्रुताभावे तु गच्छवास एवावश्यं व्यवतिष्ठते इति, तथा चोक्तं-"पुव्वाहीयं
सुयं से हवइ वा न वा, जइ से नत्थि तो लिंग नियमा गुरुसंनिहे पडिवज्जइ गच्छे य विहरइत्ति, अह पुब्वाहीयसुयसंभवो अत्थि तो से लिंगं देवया पयच्छइ, गुरुसन्निहे वा पडिवाइ, जइ एगविहारविहरणे समत्थो इच्छा व से तो एको चेव विहरइ, अन्नहा गच्छे विहरइत्ति,"| इदानी प्रत्येकबुद्धानां बोध्यादीनि चत्वारि स्थानान्याह-पत्ते इत्यादिगाथाचतुष्टयं प्रत्येकबुद्धसाधूनां बाह्यवृषभादिकारणदर्शने बोधिनियमतो
भवति, तथा तेषामुपधिर्द्विविधो-जघन्य उत्कृष्टश्च, तत्र जघन्यो मुखपोतिकारजोहरणाभ्यां द्विधा, उत्कृष्टोऽपि मुखपोतिकारजोहरण8 सप्तविधपात्रनिर्योगरूपो नवविधः, तथा श्रुतं पुनः पूर्वभवपठितमेव तेषां नियमतो भवति, तच्च जघन्यत एकादशाङ्गानि-आचारादीनि,
ACKAGES
Jain Education
.onal
For Private & Personal Use Only
R
jainelibrary.org