SearchBrowseAboutContactDonate
Page Preview
Page 223
Loading...
Download File
Download File
Page Text
________________ दिभ्यस्तु तिसृभ्यः पृथिवीभ्य आगता न सिद्ध्यन्ति तथास्वाभाव्यात् , तथा 'तरूण'त्ति षष्ठी पञ्चम्यर्थे, ततस्तरुभ्यो-वनस्पतिकायिकेभ्य उद्धृत्य अनन्तरं मनुष्यभवमागता उत्कर्षत एकस्मिन् समये षडेव सिद्ध्यन्ति, तेजोवायूनां पुनरनन्तरभवेन मनुष्यत्वस्यैवाप्राप्तेः द्वित्रिचतुरिन्द्रियाणां तु तथाभवस्वाभाव्यादेवानन्तरभवेन सिद्ध्यभाव इति, तथा चोक्तं प्रज्ञापनायाम्-"अणंतरागया णं भंते ! नेरइया एगसमएणं केवइया अंतकिरियं पकरिति ?, गोयमा! जहन्नेणं एगो वा दो वा तिन्नि वा उक्कोसेणं दस, रयणप्पभापुढविनेरइयावि एवं चेव जाव वालुयप्पभापुढवीनेरइया, पंकप्पभापुढवीनेरइया उक्कोसेणं चत्तारि, असुरकुमारा दस, असुरकुमारीओ पञ्च, एवं जहा असुरकुमारा सदेवीया तहा जाव थणियकुमारा, पुढवीकाइया चत्तारि, एवं आउकाइयावि, वणस्सइकाइया छ, पंचिंदियतिरिक्खजोणिया दुस, पंचिंदियतिरिक्खजोणिणीओवि दस, मणुस्सा दस, मणुस्सीओ वीसं, वाणमंतरा दस, वाणमंतरीओ पञ्च, जोइसिया दस, जोइसिणीओ वीसं, वेमाणिया अट्ठसयं, वेमाणिणीओ वीस"मिति, सिद्धप्राभृते च देवगतेरन्यत्र गतित्रयेऽपि दशेत्युक्तं 'सेसाण गईण दसदसर्ग'ति वचनात् , तत्त्वं तु श्रुतविदो विदन्ति, इह च वेदेभ्यो देवादिभ्योऽनन्तरोद्धृता जीवाः केचित्पुरुषाः जायन्ते केचित् त्रियः केचिन्नपुंसकाः, एवं स्त्रीवेदेभ्योऽपि देवीप्रभृतिभ्य उद्धृतानां भङ्गत्रयं, एवं नपुंसकेभ्योऽपि नारकादिभ्यो भङ्गत्रयं, सर्वसंख्यया भङ्गा नव, तत्र ये पुंवेदेभ्य उद्धृत्य पुरुषा भूत्वा सिद्ध्यन्ति तेषामेवैकस्मिन् समयेऽष्टोत्तरं शतं सिद्ध्यति, शेषेषु पुनरष्टसु भङ्गकेषु प्रत्येकं दश दशैव, इदमुक्तं भवति-देवेभ्य आगताः पुरुषा भूत्वा एकसमयेनाष्टोत्तरं शतं सिद्ध्यन्ति, स्त्रियो नपुंसकाश्च भूत्वा प्रत्येकं दशैव, देवीभ्यश्चागताः पुरुषा अपि भूत्वा दशैव एवं स्त्रियो नपुंसकाश्च, यत्तु वैमानिकदेवीभ्यो ज्योतिष्कदेवीभ्यो मानुषीभ्यश्चागता विंशतिः सिद्ध्यन्तीत्युक्तं तत्र पुंस्त्रीनपुंसकात् द्विकसंयोगतस्त्रिकसंयोगतो वा मिलिताः सन्तो विंशतिः सिद्ध्यन्ति, न पुनः केवलाः पुरुषाः स्त्रियो नपुंसका वा, यदपि विंशतिः स्त्रिय एकस असा.२० Jain Education For Private & Personal Use Only Cow.jainelibrary.org
SR No.600107
Book TitlePravachan Saroddhar Purvarddh
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1922
Total Pages444
LanguageSanskrit
ClassificationManuscript
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy